________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [26] नित्यद्रव्यवृत्तयो'ऽन्त्या विशेषाः। ते खल्वत्यन्त'व्यावृत्तिहेतुत्वाद्विशेषा एव / न्यायकन्दली द्रव्यत्वाविष सामान्यशग्दो मुख्यः, अनवत्तिहेतुत्वस्य सामान्यलक्षणस्य सम्भवात्, विशेषशब्दश्च भाक्तः, स्वाश्रयो विशिष्यते 'सर्वतोऽत्यन्तं व्यवच्छिद्यते येन स विशेष . इति लक्षणस्यात्राभावात् / इदन्तु लक्षणमन्त्यविशेषेष्वस्ति / नित्यद्रग्यवृत्तयोऽन्त्या विशेषा इति / नित्यद्रव्येष्वेव वर्तन्त एव येते विशेषा इति / नित्यद्रव्येष्वेति द्रव्यगुणकर्मसामान्यानां व्यवच्छेदः / द्रव्यगुणकर्माणि द्रव्येष्वेव वर्तन्ते, न नित्येष्वेवेति / सामान्यानि तु म द्रव्येष्वेव / न नित्येष्वेव वर्तन्त एवेति बुद्धि [fe.] द्रव्यगुणकर्मसामान्यानां व्यवच्छेदः किं पदार्थापेक्षया ? किं वाऽवान्तरभेदापेक्षया ? यद्याचस्तहि वर्तम्त एव इत्यत्र एवकारेण किमर्थं पुनर्बुद्धिशम्दादीनां व्यवच्छेद: ? यदि द्वितीयस्तहि अवान्तरसामान्यानामात्मत्वमनस्त्वादीनां द्रव्या वान्तरभेदानां द्वषणुकादीनाञ्च व्यवच्छेदार्थ पृथक् प्रयत्नान्तरमास्येयम् / अथ वर्तन्त एव इति एवकारेण सर्वनित्यद्रम्पवृत्तित्त्वमुच्यते, तेन सामान्यादीनामपि आदिशब्देन व्यवच्छेदः, तेषामप्यात्मस्वेव वतित्वादिति समाधीयते तहि विशेषाणामपि नित्यनवद्रव्यावश्यवृत्तित्वं प्रत्येकभेदापेक्षया? किं वा विशेषरूपपदार्थापेक्षया? नाद्यः, असम्भवात्, [पं०] [26] नित्यद्रव्यवृत्तय इति नित्यान्येव च तानि द्रव्याणि दिक्कालाकाशादीनि / तेषु वृत्तिवंतनं येषां ते तपा। [नित्यद्रव्येष्वेति अनित्यद्रव्यवृत्तिजातीया ये न भवन्ति / तेन जलादिपरमाणुगतरूपादि[७] न व्यभिचारः / द्रव्यगुणकर्माणि हि द्रव्येष्वेव वर्तन्त इति] द्रव्यं द्विधा - मद्रव्यम् / 1 / अनेकद्रव्यम् च।२। तत्र न द्रव्यमन्यतया जनकतया यस्य तदद्रव्यम् / द्रव्यमाकाशकालदिगात्ममनःपरमाणुलक्षणम् / अनेकद्रव्यजन्यतया जनकतया यस्य तवलोकद्रव्यम् / 2 / द्रव्ये दूषणकपणुकचतुरणुकादि / तत्रेह द्रव्यशन्देऽनेकद्रव्यं गृहीतव्यम् / न अद्रव्यम् / [कु०] ? (वा) मागामिभाव्यगतान्त्यशब्दसूचितं विशेलक्षणमाह स्वाश्रय इति (कं. 13.17) / ननु नित्यद्रव्यवृत्तयोऽन्त्यविशेष इति समस्तं वाक्यं लक्षणं तत्कुतो न विरोधोऽत आह इदंत्विति (कं. 13.19) / 'तु'रवधारणे, इदमेव लक्षणं परिशिष्टं तु प्रमाणसूचकमित्यर्थः / प्रमाणं चेदं समानजातीयानि तुल्यगुणकर्माणि समानकालवर्तीनि समानकार्याणि नित्यानि द्रव्याणि व्यावर्तकधर्मवन्ति, व्यावृत्तत्वात्पठादिवदिति / तदेतद्भाष्यमुपादाय व्याचष्टे नित्येति (कं. 13.22) / अत्र बहुवचनेन सिद्धसाधनतां परिहरति नित्यद्रव्येष्वेवेति (कं. 13.23) / द्रव्यगुणकर्मसामान्यानां व्यवच्छेद इति कथमित्यत आह द्रव्यगुणेति (कं. 13.23) / व्यवच्छेदकतयेति शेषः / अयमः द्रव्यगुणकर्माणि गुणादिभ्यस्तावद्रव्याणि व्यवच्छिन्देति[न्दन्ति] न तु द्रव्याण्यपि परस्परम् / ननु तान्यपि व्यवच्छिन्दन्त्येव 1 घन्त्या -कि. पा. 5 पु.। 2 ते च खल-कि.; व्यो.; पा. 5.6 / 3 व्यावृत्तिबुद्धिहेतु - पा.२; 5.6. व्यो., कि.। 4 सर्वतो व्यवच्छिद्यते-कं. 1; कं. 2 / 5 लक्षणस्याऽत्रापि भावात् -कं.१। 6 अस्तीतिजे. 1; जे. 3 / 7 वान्तरसामान्यानामात्मभेदामां-व। 8 त्यस्येव - अ, ब, क; 9 [ ] एतचिह्नान्तर्गतः पाठ: अ पुस्तके नास्ति।