________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली विलक्षणतया न गृह्यते, अत्यन्तव्यक्तिसौ सादृश्येन जातेरनुभूतत्वात् / यदा तु मातापित्रोस्तत्पूर्वेषाञ्च वृद्धपरम्परया 'विशुद्धब्राह्मणत्वमवसितम्, तदा ब्राह्मणोऽयमिति प्रत्यक्षेणैव प्रतीयते / यथा हि सुविदितरत्नपरीक्षाशास्त्रो रत्नजातिभेदं प्रत्यक्षतः प्रत्येति, नापरः / न च तावता रत्नजातिभेदो नास्ति, न च तत्प्रत्यक्षमप्रत्यक्षम् / 'यच्चोक्तम्स्त्रीणां स्वभावचपलानां विशुद्धिर्दुरवबोधेवेति / तदसत्, अभियुक्तः सुरक्षितानां सुकरस्तदवबोधः, कथितश्च तासां बहुविधो रक्षणोपाय 'इत्यास्तां तावत्प्रसक्तानुप्रसङ्गः। [26] तच्च द्रव्यत्वादिकं स्वविषयस्य विजातीयेभ्यो 'व्यावृत्तेरपि व्यवच्छेदस्यापि हेतुत्वाद्विशेषाल्या विशेषसज्ञामपि लभते, न केवलमनुवृत्तिप्रत्ययहेतुत्वात् सामान्यसञ्ज्ञां लभते, व्यावृत्तेरपि हेतुत्वाद्विशेषसज्ञामपि लभत इत्यपिशब्दयोरर्थः / किमुक्तं स्यात् ? [टि०] [विशेषपदार्थपरिचयः / ] - [26] नित्यद्रव्यवृत्तय इति - उत्पत्तिविनाशयोरवसानस्थत्वाद् अन्तशब्देन नित्यद्रव्याण्युच्यन्ते, तेषु भवा भन्त्याः / अस्यैव 'व्याख्या नित्यद्रव्यवृत्तय इति / नित्यद्रव्येष्वेव इति - एकेनैवैवकारेण पञ्चपदार्थव्यवच्छेदः / ननु [पं०] ननु द्रव्यत्वं चलनात्मता च स्फुटमुपलभ्येते, गुणेषु तु कथमनुवृत्तिप्रत्ययो घट इत्येव प्रतीतेरिति चोचमाममाशंक्याह रूपादिषु वित्यादि। कृतसमयस्येति - कृत संकेतस्य / तस्येति-गुणत्वसामान्यस्य संकेतमेव स्थापयति तथाहीत्यादिना / न तावता रत्नजातिभेदो नास्तीति-एवं यावताऽगृहीतसंकेतो व्यक्तिमात्रमेव गृह्णाति न तु शुक्शादिरूपभेदम, तावता शुक्लादिरूपभेदो नास्ति, किन्त्वस्त्येवेत्यर्थः / न च तत्प्रत्यक्षमिति-यावता संकेताभावाद्रत्नजातिभेदं नावगच्छति तावतैव न प्रत्यक्षम् / अप्रत्यक्षमित्यर्थः / कथितश्चेति चाणक्यादितन्त्रेषु / प्रसक्तानप्रसंग इति-प्रसक्ते सामान्ये ब्राह्मणत्वस्यानुप्रसंगः। द्रव्यत्वादी सामान्यविशेषे कि मुख्यं कि गौणमित्याह द्रव्यत्वादिषु * सामान्यशब्दो मुख्य इत्यादिना। भाक्त इति भाक्तो भंग्यां भवः / औपचारिक इत्यर्थः / [कु.] ब्राह्मणत्वं न प्रतीयत एव, तदवगमे तु प्रतीयमानं पावकत्ववदुपाधिरेवास्तीत्यत आह तथाहीति (कं. 13.9) / भत्र प्रयोगः- ब्राइण त्वं जातिधिकविरहानुनत्तिप्रत्ययविषयत्वात्, रत्नत्ववत्-पावकत्वं तु सासूयं न तथेति / एवं च जातिरङ्गीकर्तव्या। इतरथा प्रत्यक्षानुवृत्तिप्रत्ययविषयतयैव जातिस्वीकारे मनस्त्वादि जातयो न स्यात् [स्युः], तत्र लक्षणेनैवोपाधिनाऽनुवृत्तिप्रत्ययव्यवहारसिद्धर्जात्यनङ्गीकारारे सास्नाद्युपाधिना गोत्वादेरपि विलयापत्तेरित्यभिसन्धायाह आस्तामयमिति (कं. 13.13) / . [26] परस्परविरोधिनोः समुच्चयानुपपत्तिमाशङ्कय भक्त्या परिहरति किमुक्तं स्यादिति (कं. 13.16) / कुतो विशेषशब्दस्य मुख्यार्थपरित्याग इति शङ्कामपनयते / 1 मौसादृश्येनानुद्भूतत्वात् - कं. 1; सं. 2 / 2 विशुद्ध-कं. 1; विशुद्धिाह्मणत्वं च -बे. 1; . 3 / 3 यत्तुक्तम् -जे.१; जे. 3 / 4 दुरवबोधेति अभियुक्त:-जे. 1; जे. 3 / 5 आस्तामयं-जे. 1; जे. 3 / 6 व्यावृतेरपि हेतुत्वाद्-कं. 1; कं.२।७ विशेषास्यामपि-जे.१; जे.३। 8 भावा-अ,ब; 9 व्याख्यानं-ड; '10 आस्ताम- क.१॥