________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली एतेनार्थक्रियाकारित्वमपि सत्त्वं प्रत्युक्तम्, असतोऽर्थक्रियाया अभावात्, अर्थक्रियायाञ्च सत्यां तस्य 'सत्त्वात्, अर्थक्रियायाश्चार्थक्रियापेक्षया सत्त्वेनानवस्थाने सर्वस्यासत्त्वप्रसङ्गाच्च / : ___ द्रव्यत्वाद्यपरम्, द्रव्यत्वं गुणत्वं कर्मत्वञ्चापरम्, सत्तापेक्षया'ऽल्पविषयत्वादित्यर्थः। तथा द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरम्, तदपेक्षया घटत्वादिकम'परम्, गुणत्वाद्यपेक्षया रूपत्वादिकम परम्, तदपेक्षया नीलत्वादिकम्, कर्मत्वाद्यपेक्षया चोत्क्षेपणत्वादिक व्याख्येयम् / [25] जलमुपलभ्य वह्निमुपलभमानस्य तदित्यनुगमाभावाद् द्रव्यत्वं नास्तीति केचित् / 'तदसारम्, द्वयोरपि तयोः स्वप्राधान्येन प्रतीतिसम्भवात् / स्वप्राधान्य प्रतीतिरेव च द्रव्यत्वप्रतीतिः। उत्क्षेपणादिष्वपि चलनात्मकताप्रतीतिरस्ति, सैव च कर्मत्वप्रतीतिः / रूपादिषु तु कृतसमयस्यानुवृत्तिप्रत्ययसम्भवाद् गुणत्वस्याप्रत्याख्यानम् / व्यक्तिग्रहणमिव समयग्रहणमपि तस्य प्रतीतिकारणम्, ब्राह्मणत्वस्येव योनिसम्बन्धज्ञानम् / तत्रापि विशुद्धब्राह्मणसन्ततिजस्योत्पत्तिमात्रानुबद्धमपि ब्राह्मणत्वमिन्द्रियपातमात्रेण क्षत्रियादि [टि०] [25] द्वयोरपि इति - स्वप्राधान्यप्रतीति: समवायिकारणत्वप्रतीतिः / रूपादिषु इति -"समयः सङ्घतो लक्षणादिः / आस्ताम् इति - प्रस्तुतं गुणत्वं, ततः प्रसङ्गागतं ब्राह्मणत्वं ततोऽनुप्रसक्तं स्त्रीस्वरूपादि। [पं०] भसतोऽर्थक्रिया, अभावादित्येवमन्योन्याश्रयदोषः / अर्थक्रियायाश्चार्थक्रियापेक्षया सत्त्वेन नावस्थाने सर्वस्यासत्त्वप्रसंगाच्चेति-भर्थक्रिया सती, असतो वा। असतीस्वे स्व] किञ्चित्करो। सती चेत्तस्याऽप्यर्थक्रियया भाग्यमर्थक्रियाकारित्वस्यैव सत्त्वलक्षणत्वात् / तस्या अप्पर्षक्रियाकारित्वे तत्रापि सती असती वेत्याद्यावृत्ताऽनवस्था। ततश्च सर्वस्याप्यसत्त्वं स्यादित्यर्थः / [25] तदित्यवमर्शाभावादिति / बलमिदमित्यवमर्शाभावात् / द्वषोरपीति / तयोरिति - जमबरन्योः स्वप्राधान्यप्रतीतिरेव "च द्रव्यत्वप्रतीतिरिति-द्रव्यं हि स्वप्रधानं गुणादयस्तु द्रव्यपरतन्त्रत्वान्न तथा / [कु०] [25] कृतसमयस्य = (कं. 13.3) व्युत्पादितलक्षणस्य / ननु प्रत्यक्षा[नुवृत्तं सामान्यं प्रत्यक्षमेव समयश्चागमः, तत् कथं कृतसमयेन गृह्यमाणं प्रत्यक्ष रूपादौ गुणत्वं सामान्यं भविष्यतीत्यत आह व्यक्तिग्रहणमिवेति (कं. 13.4) / उपदेशसापेक्षेण चक्षुषा जातिप्रतीतो दृष्टान्तमाह ब्राह्मणत्वस्येवेति (कं. 13.5) / ननु उत्पत्तिशुद्धपनवगमे 1 सत्त्वादन्योन्याश्रयप्रबजात-जे.१। 2 ऽल्पविषयत्वाद् -जे. 1; जे 3 / 3,4 अत्र द्वयोरपि स्थानयोः 'अपरम्' - इति ने. 1; जे. 2 पुस्तकयो स्ति, तदपेक्षया नीलत्वादिकं- इति - कं. 1, कं. 2 पुस्तकयो स्ति / 5 तपित्यवगमाभावात्-.१; जे.३। 6 तदसत् - जे. जे. 3 / 7 रप्यनयोः -जे. 1; ज. 3 / 8 प्रतीतिरेव द्रव्यत्वप्रतीति-कं.१; कं. 2 / 9 तथा हि-जे.१; जे. 3 / 1. समयसङ्केतो-म, व; 11 'च' इति-कं. पुस्तके नास्ति /