________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली [24) अत्रोच्यते, प्रत्येक पदार्थस्वरूपाणि भिन्नानि, कथं तेष्वेकाकारप्रतीतिः ? एकशम्पप्रवृत्तिश्च ? अनन्तेषु सम्बन्धग्रहणाभावात् / अथ तेष्वेकं निमित्तमस्ति ? सिदं नः समोहितम् / यथा दृष्टकगोपिण्डस्य पिण्डान्तरे पूर्वरूपानुकारिणी बुद्धिति, नवं महीधरमुपलभ्य सर्षपमुपलभमानस्य पूर्वाकारावभासोऽस्तीति 'कुतोऽत्र सामान्यकल्पनेति चेत् ? कि महीधरादिषु निखिलरूपानुगमो नास्ति ? उत मात्रयाऽपि न विद्यते ? यदि निखिलरूपानुगमाभावात्तेषु सामान्यप्रत्याख्यानम् ? तहि गोत्वमपि प्रत्याख्येयम्, तयोः शाबलेय बाहुलेययोरपि सर्वथा साधाभावात् / अथ मात्रयाऽपि 'स्वरूपानुगमो नास्ति ? तदसितम्, सर्वेषामपि तेषामभावविलक्षणेन रूपेण तुस्पताप्रतिमासनात् / इयांस्तु विशेषः- गोपिण्डेष झटिति तम्गातीयताबुद्धिः, भूयोऽवयवसामान्यानुगमात् / महीधरादिषु तु विलम्बिनी, स्तोकावयवसामान्यानुगमेन जातेरनुरभूतत्वात्, यथा मणिकदर्शनाच्छरावे मृज्जातिबुद्धिः / [di0] [24] अनन्तेषु 'सङ्केताभावाद् इति - भक्षशब्दप्रवृत्तिवदत्राप्येकशम्वप्रवृत्तिसम्भवे अनन्तेषु सङ्केतकरणाशक्यत्वमेवोत्तरम् / गोत्वमपि प्रत्याख्येयम् इति - स हि गोत्वादिकमभ्युपगग्छति, सत्ताद्रव्यगुणत्वादिकं तु नाभ्युपगग्छतीति / [पं०] ननु यदि सर्वेषामपि तेषामभवाविलक्षणेन रूपेण तुल्यत्वं प्रतिभासत इत्युच्यते तहि किमथं गवादी सामान्यत्वं प्रतिभाति न पर्वतसर्षपादौ इत्याशंक्याह-इयांस्तु विशेष इत्यादि / जातेरिति = सामान्यस्य / मणिकदर्शनादिति - अलिजरदर्शनात् / अर्थक्रियाकारित्वमपि सत्त्वमिति यदेवार्य क्रियाकारि तदेव परमार्थसदिति बौद्धपरिकल्पितम् / * 'तस्य सत्वादिति - वस्तुनः सत्त्वात् / 'अन्योन्याश्रयप्रसंगादिति-अर्थक्रियायां सत्यां सत्त्वम्, सत्त्वे एवार्षक्रिया, [क०] [24] अत्रोच्यते इति (कं. 12.11) इह तावद्रव्यादिषु सत्सदित्येकाकारप्रतीतिव्यपदेशश्च, सत्ताव्यतिरिक्तं तत्रक निमित्तं यदि नास्त्यस्ति वा? नाधत इत्याह प्रत्येकमिति (कं. 12.12) 'न द्वितीय इत्याह अथ तेष्विति (कं. 12.13) अत्र प्रयोगः (?) द्रव्यगुणधर्माकान्तानि एकाकारप्रतीतिविषयत्वात शाबलेयबाहुलेयगोपिण्डवदिति / हेत्वसिद्धिमाशहते यथेति (कं. 12.14) / परिरति किमिति (कं.१२.१६) / यदि सत्ताव्यतिरेकेण सत्सदित्येकाकारप्रतीतिव्यवहारो नेष्यते तहि कथं सामान्यादिषु तादिति चेत सत्तैकार्थसमवायेनोपचाराद्भविष्यतः / एतेन सत्तासामान्यसमर्थनेन तस[८]त समिति सर्वथा साधम्यं शाबलेयादिष्वपि नास्ति / यथा कथंचित्साम्यात्तदित्यवमर्श इहाप्यस्तीत्यर्थः / १कुतस्तत्र-जे. 1; जे. 3 / 2 बाहुलेययोः बर्षया-कं. 1; कं. 2 / 3 सरूपानुगमो-जे. जे. 3 / 4 सम्बन्धग्रहणाभावात् - मु. जे. नं. 1, 3, 5 तु अब पुस्तकयो स्ति। 6 पाठोऽयं कं. पुस्तके नास्ति / 7 न द्वितीय इत्याह प्रत्येकमिति न पुनरावृत्तम् /