________________ न्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तथापि न तेभ्यः स्वाभयं व्यावर्तयितुं शक्नोति / तेषामपि स्वरूप'सतां सद्बुद्धिवेद्यत्वात् / वस्त्वपेक्षया चानुवृत्तिहेतुत्वं विवक्षितम्, तेनाभावाद्वघावृत्तिहेतुत्वेऽपि न दोषः / [23] यत्प्रमाणेन प्रतीयते तत्रास्तीति व्यवहारो लोकानां विपर्यये तु नास्तीति / तेन प्रमाण'गम्यव सत्तेति केचित् / तदयुक्तम्, प्रमाणोत्पत्तेः प्राग वस्तुनोऽसत्त्वप्रसङ्गादसतश्च खरविषाणस्येव ग्राह्यत्वाभावादन्योन्यसंश्रयापसेश्च। असतः प्रमाणस्याग्राहकत्वे सत्तायाः प्रमाणग्राह्यतालक्षणत्वे च ग्राहकस्य प्रमाणस्यापि ग्राहकान्तरानुसरणेनानवस्थापाताच्च / अथ मतं न ब्रूमः प्रमाणसम्बन्धः सत्तेति, किन्तु प्रमाणसम्बन्धयोग्यं वस्तुस्वरूपमेव सत्ता। योऽपि सत्तासामान्यमिच्छति, सेनापि पदार्थस्वरूपमभ्युपेयम्, निःस्वभावे शशविषाणादौ सताया असमवायात् / एवं चेत्तदेवास्तु, 'किमन्यया सत्तयेति / IUI JICTI तु नास्तीति- यत्प्रमाणेन न प्रतीयते तत्र नास्तीति ग्यवहारः प्रवर्तत इत्यर्थः / केचिदिति -प्रामाकराः। अन्योन्यसंश्रयापत्तरिति सत्तायां सत्यां प्रमाणगभ्यताऽप्रमाणगम्यतायां च सत्यां सत्ताइत्येवंरूपेतरेतराभयदोषापातादित्यर्थः / ग्राहकप्रमाणस्यापि ग्राहकान्तरानुसरणेनानवस्थापाताच्चेति-कोऽर्थ: ? प्राहकप्रमाणमपि हि सदसद्वा। सच्चेत्, अकिञ्चित्करमित्यर्थः / एवं चेतदेवास्तु, किमन्यया सत्तयेतीति सत्तासमवायात्प्रागपि यदि वस्तुस्वरूपं विद्यते, तदा किं सत्तया ? तया हि वस्तुस्वरूपं सातत्वारोऽप्यस्तीत्यर्थः / अनन्तेषु शब्दग्रहणाभावादिति-न च सम्बन्धग्रहणं विना एकाकारप्रतीतिरिति भावः / अत्र चात्यंतभिन्नेषु सम्बन्धग्रहणाभावादिति पाठान्तरम् / सुगमम् / परवाक्यं यथा दृष्टकेत्यादि / कुतस्तत्र सामान्यकल्पनेति -अत्राप्यत्यन्तभिन्नत्वाविशेषात्प्राप्नोति सामान्यकल्पनेत्यास्यानमित्यतः पुरस्तदेत्यध्याहार्यम् / तेषामिति महीधरसवंपादीनामभावविलक्षणेन रूपेणेति भावेन / [कु.] न तेभ्य इति (कं. 12.2) म्यावर्तयितुं बाधकज्ञानात्प्राग्व्यावृत्तिबुद्धि जनयितुं तेषामपि स्वरूपसतो सद्बुद्धिवेद्यत्वेऽपि सामान्यादिषु सत्ता अनवस्थादेबर्बाधकादिति द्रष्टव्यम् / [23] आक्षिपति यत्प्रमाणेनेति (कं. 12.4) / विधिमुझेनेति शेषः / प्रमाणगम्यताविधायकप्रमाणगम्यता / परिहरति तदयुक्तमिति (कं. 12.5) / अन्योन्यसंश्रयापत्तेरिति (कं. 12.6) सत्त्वात्प्रमाणग्राह्यत्वं, प्रमाणग्राह्यत्वेन सत्त्वमिति / 'असतः प्रमाणस्येति (कं.१२.७) नन कारणाभावोऽसद्रप एव कार्याभावे गमयतीति तत्कथमसद्ग्राहकमिति चेत , न, तत्राप्यान्यमनःसंयोगस्य सत एव ग्राहकत्वात / 'सत्ताव्यतिरेकेण न नान्यत्प्रमाणयोग्यत्वमिति (क. 12...) / परिहाराभासमाशङ्कयाह योऽपीति (कं. 12.9) / 1 स्वरूपसत्तासम्बरिवेद्यत्वात-कं.१; कं. 2 / 2 तत्रास्ति व्यवहारो-कं. 1: कं.२ जे. 3 / 4 सतः प्रमाणस्य - कं. 1, कं. 2 / 5 किं सत्तयेति-कं. 1; कं.२। 7 प्रतीकमिदं-कं. 1, 2 पुस्तकयो स्ति-खं.। 3 गम्यतैव-जे. 17 6 सतः-कं. 1 /