________________ 41 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् [22] प्रशस्तपादभाष्यम् सामान्यं द्विविधं परमपरञ्च / अनवृत्तिप्रत्ययकारणम् / तत्र परं सत्ता महाविषयत्वात् / सा चानुवृत्तेरेव हेतुत्वात् सामान्यमेव / द्रव्यत्वाद्यपरम्, अल्पविषयत्वात् / तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषाख्यामपि लभते / न्यायकन्दली [22] सामान्यं कथयति-सामान्यं द्विविधमिति / द्वैविध्यमेव कथयति-परमपरं चेति / चोऽवधारणे, परमपरमेवेत्यर्थः / तस्य स्वरूपं कथयति - अनुबत्तिप्रत्ययकारणमिति / अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणादन्योन्यस्वरूपानुगमः प्रतीयते तत्सामान्यम् / किं तत्परं सामान्यमित्याह - परं सत्तेति / अत्र 'युक्तिमाह - महाविषयत्वादिति / द्रव्यत्वाधपेक्षया बहुविषयत्वादित्यर्थः / सा चानुवृत्तेरेव हेतुत्वात् सामान्यमेव / द्रव्यत्वादिकं तु स्वाश्रयस्य विजातीयेभ्योऽपि व्यावृत्तेरपि हेतुत्वाद्विशेषोऽपि भवति / सत्ता तु स्वाश्रयस्यानुवृत्तेरेव हेतुस्तेन सामान्यमेव / यद्यप्येषा सामान्यादिभ्यो व्यावर्त्तते [टि.] व्यावतंयतीति प्रतीयते / न त्वमस्ति तेषामपि सच्छब्दवाच्यत्वात् बाधकवशा तु सत्तासामान्यं न कल्प्यत इति, 'न त्वभावात। स्वाश्रयं यावर्तयतीत्याह 'भावापेक्षया “च इति / नन्वभावस्याप्यस्तीति प्रत्ययविषयत्वात् मभावादपि सत्तास्वाश्रयं न 'व्यावर्तयति / सत्यम्, अभावस्य हि विधिरूपता प्रतीत्य भावादिदमुक्तम्, "[अस्तित्वं] तु तस्य प्रामाणिकत्वमित्यर्थः / पिं०] सा चेति.-सा सत्ता। स्वाश्रयस्येति पथिव्यादेः / विशेषोऽपि भवतीति सामान्यं विशेषश्च भवतीत्यर्थः / ..स्वाश्रयस्येति द्रव्यगुणकर्मलक्षणस्य / यद्यप्येषेति-एषा सत्ता। सामान्यादिभ्यो ब्यावर्तत इति निःसामान्यत्वासामाध्यविशेषसमवायानाम् / न तेभ्यः स्वाश्रयं व्यावर्तयितुं शक्नोतीति-तेभ्य: सामान्यविशेषसमयायेभ्यः, स्वाश्रयं सच्छन्दवाच्यलक्षणं व्यवहारं व्यावर्तयितुं न शक्नोतीति, किन्तु स्वयमेव व्यावर्तयितुं शक्नोतीत्यर्थः / [कु०] [22] परमपरं चेति (कं. 11.18) एकव्यक्तिवृत्तित्वे सतीति शेषः। अत्यन्तव्यावृत्तानामि [ति] (कं. 11.19) व्य(क्तक्त्यभेदे अनुगमविरो (हा) [धा]त् तुल्यव्यक्तिषु च द्वितीयादौ व्यावर्तकधर्मविरहे प्रमाणाभावात् परस्परपरिहारवत्यो [तो]रेका विरोधात् सामान्येऽनवस्थानात् विशेषेषु लक्षणहानिप्रसङ्गात् समवायसम्बन्धविरहाज्जातेर्बाधः / अत्र युक्तिमिति (कं. 11.21) प्रमाणमित्यर्थः / तत्र प्रयोगः, सत्तासामान्यं द्रव्यत्वापेक्षया परमिति व्यवहर्तव्यं तबपेक्षया महाविषयत्वात् / यद्यदपेक्षया परमिति न ब्यवह्रियते न तत्तदपेक्षया महाविषयं यथा द्रव्यत्वापेक्षया पृथिवीत्वम् / एवं पृथिवीत्वापेक्षया द्रव्यस्वमिति द्रष्टव्यम् / सत्ताया सपक्षेणान्वयोऽपीति विशेषः / 1. चेति - कि.; ता; दे। 2 तच्चानुवृत्ति-कि. दे। 3 रूषं-कं. 1; कं. 2 / 4 युक्तिमहाविषयत्वादिति जे. 1; जे. 3 / 5 सत्त्वासामान्यं - अ, ब; 6 नित्वभावात् - अ, 7 भावापेक्षया-म. जे. नं. 1, 3; .8 प्रतीकमिदं कइलोपाठे नास्ति। 9 न्यावर्तवति-अ; 10[ ] एतचिह्नास्तर्गतः पाठः अब पुस्तकयो स्ति / 6