________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् न 'तादात्म्यात् / यथा द्रव्यगणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तः.. योगोऽस्ति / एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवृत्तिः। न्यायकन्दली तस्य द्रव्याश्रितत्वात् / नापि समवायः, एकत्वात् / न च संयोगसमवायाभ्यां वृत्त्यन्तरमस्ति / तत्कथमस्य वृत्तिरित्यत आह-कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तत इति / वृत्त्यभावान्न वर्तत इत्यभिप्रायः / एतत् समाधते नेति / वृत्त्यभावान्न वर्तत इत्येतन्न, तादात्म्याद वृत्त्यात्मकत्वात् स्वत एवायं वृत्तिरिति / कृतको हि संयोगस्तस्य वृत्त्यात्मकस्यापि वृत्त्यन्तरमस्ति, कारणसमवायस्य कार्यलक्षणत्वात् / समवायस्य वृत्त्यन्तरं नास्ति / तस्मादस्य * स्वात्मना स्वरूपेणैव वृत्तिन वृत्त्यन्तरेणेत्यर्थः / अत' एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात् / यथा सत्तादीनां प्रत्यक्षेध्वर्थेषु वृत्तिरस्ति तेन ते संयुक्तसमवायादिन्द्रियेषु गृह्यन्ते, नैवं समवायस्य वृत्तिसम्भवः / अतोऽतीन्द्रियोऽयम्, संयोगसमवायापेक्षस्यैवेन्द्रियस्य भावग्रहणसामोपलम्भात् / यदि समवायविषयमैन्द्रियकं संवेदनमस्ति ? सम्बन्धाभावाभिधानं प्रलापः / अथ नास्ति, तदेव वाच्यमित्यत्राह-स्वात्मगतसंवेदनाभावाच्चेति / यथेन्द्रियेण संयोगप्रतिभासो नैवं समवायप्रतिभासः, सम्बन्धिनोः पिण्डीभावोपलम्भात्, अतोऽयमप्रत्यक्षः / उपसंहरति-तस्मादिति / [कु.] (कं. 329) गहावग्रहणव्यभिचारपरिहाराय विशेषणम् / अत्र प्रयोगः- समवायो न बाह्येन्द्रियग्राह्यः / विधिप्रत्ययविषयत्वे मति संयोगसमवाययोरन्यतरेणापि संबंधेन इन्द्रियासंबद्धत्वात् / व्यवहितविप्रकृष्टवदिति / इन्द्रियजिज्ञास्य इच्छयाऽनुव्यव पायसंभवात्तस्य सदसत्तयोरनव्यवसायसदसत्वे एवं प्रमाण किमर्थ [मनमानोपन्यास इत्यर्थः / यथेन्द्रियेणेति (कं. 330) संयोगविषयं ज्ञानं प्रत्यक्षतयाऽनव्यवसीयते / नवं समवायविषयमित्यर्थः / स्वातन्त्र्यप्रतिरोधक इति (क. 330) भेदवृत्तीः पृथग्भावानवबोधादपश्लेषो: नियतं पारतंत्र्यं यत् / कृत: समवाय इत्यर्थः।। 1 तादात्म्याद भाववत-दे। 2 परः-कं. 1, परस्य-जे.३। 3 अत एव चातीन्द्रिय:-जे. 3 /