________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [269] सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् / यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तं तथा समवायोऽपीति / नास्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति / [270] कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते ? न संयोगः सम्भवति, 'तस्य गुणत्वेन द्रव्याधितत्वात् / नापि समवायस्तस्यैकत्वात् / न चान्या वृत्तिरस्तीति / न्यायकन्दली [269] किं. पुनरयमनित्य आहोस्विन्नित्यः ? इति संशये सत्याह-सम्बन्ध्यनित्यत्वेऽपोति / यथा सम्बन्धिनोरनित्यत्वे संयोगस्यानित्यत्वम् न, तथा समवायिनोरनित्यत्वे समवायस्यानित्यत्वं भाववदकारणत्वादिति / एतद्विवणोति-यथेत्यादिना / युक्तो हि सम्बन्धिविनाशे संयोगस्य विनाशः, तदुत्पादे सम्बन्धिनोः समवायिकारणत्वात् / समवायस्य तु सम्बन्धिनौ न कारणम्, सम्बन्धिमात्रत्वात् / यथा' चैतौ न कारणं तथोपपादितम् / तस्मादेतस्य सम्बन्धिविनाशेऽप्यविनाशः, सत्तावदाश्रयान्तरेऽपि प्रत्यभिज्ञायमानत्वात् / [270] किमसम्बद्ध एव समवायः सम्बन्धिनो सम्बन्धयति ? सम्बद्धो वा ? न तावदसम्बद्धस्य सम्बन्धकत्वं युक्तम्, अतिप्रसङ्गात् / सम्बन्धश्चास्य न संयोगरूपः सम्भवति, पिं०] .. विशेषसमवायेभ्य हितामिति / द्वितीयपक्षे भ्रमरार्थं हिताम् / पाण्डदास इति कायस्थाख्यः। उपदिकरोतीति अपदरेवार्थः शब्दपरावर्तेन / स्वग्रन्थान्तनिक्षिपति ततश्च मर्यव रचितमिति वक्तीत्यर्थः। 'पञ्चानामिति ब्रह्महत्यासुरापान-स्तेय-गुवंगनागमन-तत्संसर्गाख्यानाम् इति न्यायकन्दलीप्रशस्ति:। [कु०] [269] तथोपपादितमिति (कं. 329) अन्यतरकर्मादीनां निमित्तादीनामभावादित्यत्र सत्तावदाश्रयान्तरेऽपीति (कं. 329) एकत्वस्य च प्रागेव साधितत्वादिति शेषः / [270] तस्यकत्वादिति (कं. 329) वृत्तिवृत्तिमद्भावस्य च भेदाधिष्ठानत्वादिति शेषः / पर इति (कं. 329) सिद्धांतीत्यर्थः / यो आद्यः सम्बन्धः सः सर्वो वत्तिमान, यथा संयोग इति व्याप्तिः कार्यत्वेन सोपाधिकेत्याह कृतको हीति 1 दनित्यत्वं, कथम्-दे। 2 समवायोऽपि-दे। 3 अस्य-दे। 5 प्रत्यभिज्ञानात-जे.२। 6 इमे प्रतीके के. पुस्तके न स्तः / मुद्रितः पाठः। 4 यथा न-कं. 1, कं. 2, जे. 1, जे. 3 / 7 उपायं करोतीति अत्रत्यं जल्पं तैरेवार्थः --