________________ न्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् प्रशस्तपादभाष्यम् एवमादि कस्मात् ? अन्वयव्यतिरेकदर्शनात् / इहेति समवाय'निमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते / द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् 'प्रतिनियमो ज्ञायते / यथा कुण्डदध्नोः संयोग'कत्वेऽपि भवत्याश्रया श्रयिभावनियमः / तथा द्रव्यत्वादीनामपि समवायकत्वेऽपि व्यङग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति / न्यायकन्दली निमित्तस्य प्रत्ययस्य कर्मस्वन्वयो द्रव्यगुणेभ्यश्च व्यतिरेको दृश्यते, तस्मादन्वयव्यतिरेकदर्शनाद् द्रव्यत्वादीनां नियमो ज्ञायते / अस्य विवरणं सुगमम् / समवायाविशेषे कुत' एवायं नियमः द्रव्यत्वस्य पृथिव्यादिष्वेव समवायो गणत्वस्य रूपादिष्वेव कर्मत्वस्योत्क्षेपणादिष्वेव नान्यत्र ? इत्यत आह-यथेति / संयोगस्यकत्वेऽपि कुण्डदध्नोराश्रयायिभावस्य नियमो दृष्टः, शक्तिनियमात् / कुण्डमेवाश्रयो 'दध्येवाधेयं न तु कुण्डमाऽयं दधि वाऽधारः / तथा समवायकत्वेपि द्रव्यत्वादीनामाधाराधेयनियमो व्यङ्गयव्यञ्जकशक्तिभेदात् / किमुक्तं स्यात् ?, द्रव्यत्वाभिव्यञ्जिका शक्तिद्रव्याणामेव, तेन द्रव्येष्वेव द्रव्यत्वं समवैति नान्यत्रेति / एवं गुणकर्मस्वपि व्याख्येयम् / [पं०] समवायोऽपि समवायान्तरसमवेतः। भावग्रहणेत्यादि अत्र भावः सत्ता / सम्बन्धा[भावाभिधानं प्रलाप इति यदि...... विषयज्ञानमंन्द्रियकं तदेन्द्रियसंयूक्तात्व] स्यैवं सम्बन्धत्वात्कृतः सम्बन्धाभाव इत्यर्थः। तदेव वाच्यमिति संवेदनमेव वाच्यम् / कथमस्य संवेदनमित्यर्थः। अप्रत्यक्ष इति अनमेयः। स्वातन्त्र्यप्रतिरोधक इति / अवि...(?) साधन? ] रूपत्वात् / इति समवायपदार्थः समर्थितः / तत्समर्थनाय च समथितेयं भट्ट श्रीधरविरचिता न्यायकन्दली. वृत्तिरिति / अथ भट्ट श्रीधरो ग्रन्थप्रशस्ति प्रस्तौति-सुवर्णत्यादि पद्यः / अक्षीणनिजपक्षेष्विति अक्षीणनिजप्रतिज्ञेषु विद्वत्सु इति यावत् / अच्छुकेति अम्भोकेत्यपि पाठः। षट्पदार्थहितामिति तर्कपक्षे षट्भ्यः पदार्थेभ्य: द्रव्यगुणकर्मसामान्य 1 निमित्तज्ञानस्य-दे। 2 प्रतिनियमोऽपि विज्ञायते-दे। 3 कत्वे-कं. 1, कं. 2 / 4 श्रयिनियमः-देः / 5 त्वादीनां समवायकत्वे-दे। 6 कूत एष-जे. 2 / 7 दध्येवाश्रयि एवं-कं. 1, कं. 2, जे. 2 /