________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् न, आधाराधेयनियमात् / यद्यप्येकः 'समवायः सर्वत्र स्वतन्त्रः, तथाप्याधाराधेयनियमोऽस्ति / कथं द्रव्येष्वेव द्रव्यत्वम्, गणेष्वेव गणत्वम्, कर्मस्वेव कर्मत्वमिति / न्यायकन्दली तद्योगस्य द्रव्यकर्मणोरपि भावात् तयोरपि गुणत्वं स्यात् / एवं च कर्मस्वपि पदार्थानां सङ्कीर्णता दर्शयितव्या / समाधत्ते-नेति / न च पदार्थानां सङ्कीर्णता, कुतः ? आधाराधेयनियमात् / न समवायसद्भावमात्रेण द्रव्यत्वम्, किन्तु 'द्रव्यत्वसमवायाद् द्रव्यत्वम् तत् समवायश्च द्रव्येष्वेव न गणकर्मसु, अतो न तेषां द्रव्यत्वम् / एवं गुणकर्मस्वपि व्याख्येयम् / एतत्सङग्रहवाक्यं विवृणोति-यद्यप्येकः समवाय इत्यादिना / स्वतन्त्र इति संयोगवत् सम्बन्धान्तरेण न वर्तत इत्यर्थः / व्यक्तमपरम् / पुनश्चोदयति-एवमादि कस्मादिति / द्रव्येष्वेव द्रव्यत्वं वर्तते, गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वमित्येवमादि कस्मात् त्वया ज्ञातमित्यर्थः / उत्तरमाह-अन्वयव्यतिरेकदर्शनादिति / द्रव्य त्वनिमित्तस्य प्रत्ययस्य द्रव्येष्वन्वयो गुणकर्मभ्यश्च व्यतिरेकः, गुणत्वनिमित्तस्य प्रत्ययस्य गुणेष्वन्वयो द्रव्यकर्मभ्यश्च व्यतिरेकः, तथा कर्मत्व __स्वत एवायमिति-अयं समवायः। कारणसमवायस्य कार्यलक्षणत्वादिति-कार्य कारणसमवेतं यथा पटस्तन्तुषु समवेतः / संयोगस्य कृतकत्वात्कार्यरूपः स च स्वोत्पादककारणे समवेत इति सम्बन्धरूपाभिवृत्त्यन्तरं समवायलक्षणमपेक्षते / समवायस्तु स्वयमेव वृत्तिरूप: इति न वृत्त्यन्तरमपेक्षते / [नवं] समवायस्य वृत्तिसम्भव इतिइन्द्रियेण संयुक्तं वस्तु, तत्समवेता सत्ता इति संयुक्तसमवायादिन्द्रियेण ग्राह्या। [ तथा न समवायः / ] नहि [कु०] उपाधीनामप्याधारनियमे कारणं पृच्छतीत्यर्थः / समवायविशेष इति (कं. 328) अन्वयव्यतिरेकोऽपि कि कृत इति शंकार्थः / संयोगस्यैकत्वेऽपीति (कं. 328) वस्तुस्वभावकृत इत्युत्तरार्थः / / 1 समवायः स्वतन्त्रः तथाधारा-दे। 2 सम्भवात-जे. 2 / 3 द्रव्यसमवायाद् द्रव्यत्वं समवायश्च द्रव्ये एव-कं. 1, कं. 2 / 4 स्वतन्त्र:-कं. 1, कं.२। 5 द्रव्यत्वमिति तस्य-जे.१। .. .