________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [268] न च संयोगवन्नानात्वम्, भावल्लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च / तस्माद्धाववत्सर्वत्रैक. समवाय इति / 'ननु यद्येकः समवायः ? द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धेकत्वात् पदार्थसङ्करप्रसङ्ग इति / न्यायकन्दली [268] किमयमेक आहोस्विदनेक इत्यत्राह-न च संयोगवन्नानात्वमिति / यथा संयोगो नाना, नैवं समवायः / कुत इत्यत्राह-भाववल्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च / यथा सत्सदितिज्ञानस्य लक्षणस्य सर्वत्राविशेषादवलक्षण्याद्विशेषे भेदे लक्षणस्य प्रमाणस्याभावाच्च सर्वत्रैको भावः, तद्वदिहेतिप्रत्ययस्य लक्षणस्य सर्वत्रावैलक्षण्याद् भेदे प्रमाणाभावाच्च सर्वत्रैकः समवाय इति / उपसंहरति-तस्मादिति / / चोदयति-'योकः समवाय इति / समवायस्यैकत्वे य एव द्रव्यत्वस्य पृथिव्यादिषु योगः, स एव गुणत्वस्य गुणेषु, कर्मत्वस्य च कर्मसु / तत्र यथा द्रव्यत्वस्य : योगः पृथिव्यादिष्वस्तीति [तेषां द्रव्यत्वम्, तथा तद्योगस्य गुणादिष्वपि सम्भवात् 'तेषामपि द्रव्यत्वम्] यथा च गुणत्वस्य योगो रूपादिष्वस्तीति रूपादीनां तथा, [पं०] 'सत्ता तद्योगस्येति (कं. 327.23) द्रव्यत्वयोगस्य / सम्बन्धान्त रेणे]ति (कं. 328.5) उक्त संयोगादिना / संयोगस्यैकत्वेऽपीति (कं. 328.14) एकत्वं द्विष्ठत्वात् / तदुत्पादे इति (कं. 329.14) संयोगोत्पादे / सम्बन्धिनामिति (कं. 329.15.) तन्तुपटादि / उपपादितमिति (कं. 329.16) द्रव्यपदार्थे / परवाक्यं किमसम्बन्धमेवे (कं. 329.18) त्यादि। तस्य द्रव्याश्रितत्वादिति (कं. 329.20) संयोगा हि गुणः स च (द्रव्य)श्रयीति कृत्वा / वृत्यन्तरमिति सम्बन्धान्तरम् / [कु०] [268] एकत्वं प्रमाणविशेषः / प्रमाणं च समवाय एक: / अवांतरभेदलक्षणविरहित्वात् / सत्तावत् / न समवायसद्भावमात्रेणेति (कं. 328) एकस्याप्युपाधिभेदाढ़ेदकत्वमिति भावः / पुनश्चोदयतीति (कं. 328) 1 यद्येकः समवायो नन-दे। 2 योक-कं. 1, कं. 2 / 3 अत्र जे. 1 पुस्तके लेखक दोषात [] एतचिह्नान्तर्गतः पाठः पुनरावृत्तः। 4 तथा-कं.१।