________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 691 प्रशस्तपादभाष्यम् [267) स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् / यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः, तथा समवायस्यापि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वमिति / न्यायकन्दली 1267] एवं स्थिते समवाये तस्य द्रव्यादिभ्यो भेदं प्रतिपादयति-स च द्रव्यादिभ्यः पदार्थान्तरमिति / कुत इत्यत आह-भाववल्लक्षणभेदादिति / एतद्विवणोति-यथेति / भाव इति सत्तामहासामान्यमुच्यते / द्रव्यत्वादीत्यादिपदेन गुणत्वादिपरिग्रहः / यथा भावस्य स्वाधारेषु द्रव्यगुणकर्मसु आत्मानुरूपः प्रत्ययः सत्सदितिप्रत्ययः, द्रव्यत्वस्य स्वाश्रयेषु द्रव्येष्वात्मानुरूपः प्रत्ययः द्रव्यं द्रव्यमितिप्रत्ययः, गुणत्वस्य स्वाश्रयेषु गुणेष्वात्मानुरूपः प्रत्ययो गुण इति प्रत्ययः, कर्मत्वस्य स्वाश्रयेषु कर्मसु आत्मानुरूपः प्रत्ययः कर्मेतिप्रत्ययः, तस्य कर्तृत्वाद् भावद्रव्यत्वादीनां स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः, तथा समवायस्यापि पञ्चसु पदार्थेष्विहेति प्रत्ययदर्शनात् तेभ्यः पञ्चभ्यः पदार्थान्तरत्वम् / [पं०] विनाश्यत्वम् / न समवायस्येति (कं. 326.10) समवायस्य विभागविनाश्यत्वं न दृश्यते विनाशकस्य विभागस्यवाभावात् / अधिकरणाषिकर्तव्ययोरिति (कं. 326.11) आधार्याधारयोः / यथा भावस्येत्यादि (कं 326.22) [गये] यथेति पदस्य अर्थान्तरभाव (कं 327.2) इत्यनेन सह सम्बन्धः / अव वाक्ये ('इत्य) भावस्येति सत्तायाः / कर्तृत्वादिति (कं. 327.1) विधायित्वात् / भावव्यत्वादीनामिति (क. 327.1) [अ]परसामान्यानाम् / स्वाश्रयादिभ्य (कं 327.1) इति द्रव्यगुणकर्मभ्यः / आदिद्रहणा समवेतसमवायः / यथा (घ)टे रूपं समवेतं रूपं च रूपत्वं समवेतमिति / परस्परतश्चेति (कं. 327.2) यथा द्रव्यत्वात पृथिवीत्वमर्थान्तरभूतं गणत्वाद्रूपत्वमर्थान्त रभृतं कर्मत्वादुत्क्षेपणत्वमर्थान्तरभूतमितिभावः इति / [कु०] [267] एवं साधितसद्भावस्य लक्षणेनैव सिद्धस्य संभेदसंभा (भवा?)वयत्वस्य सुग्रहत्वाय प्रपंचपरं भाष्यमुपादाय व्याचष्टे एवं स्थित इति (कं. 326) अत आहेति (कं. 326) / 1 सत्तासामान्य-कं. 1, कं. 2 / दृष्ट्या - सं.। 2 स्वात्मा-जे. 2 / 3 कर्मत्वा-जे. 2 / 4 इत्य इति निरर्थकमर्थ