________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 685 प्रशस्तपादभाष्यम् शिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं 'विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकर्षदष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः। यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं च स्यात् ? ततः किं स्यात् ? नैवं भवति / यथा न योगजाद्धर्मादशुक्ले न्यायकन्दली सिद्धे विशेषसद्भावे तेषां लक्षणाभिधानं युक्तं नासिद्धे, इत्याशङ्कयच विशेषाणां सद्भावं प्रतिपादयितुं ग्रन्थमवतारयति-यथेत्यादिना / यथा गवादिष्वश्वादिभ्यस्तुल्याकृतिनिमित्ता गौरिति, गुणनिमित्ता शुक्ल इति, क्रियानिमित्ता शीघ्रगतिरिति, अवयवनिमित्ता 'पीन इति ककुमानिति, संयोगनिमित्ता महाघण्ट इति, 'यथा अस्मदादीनां प्रत्ययव्यावृत्तिर्दृष्टा / तथास्मद्विशिष्टानां योगिनां तुल्याकृतिगुणक्रियेषु तुल्याकृतिषु तुल्यगुणेषु तुल्यक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारमयमस्माद्विलक्षण इति प्रत्ययव्यावृत्तिर्भवति तेऽन्त्या विशेषाः / __ यथास्मदादीनां गवादिव्यक्तिषु 'प्रत्ययभेदो भवति, तथा परमाण्वादिष्वपि तद्दर्शिनां परस्परापेक्षया प्रत्ययभेदेन भवितव्यम्, 'व्यक्तिभेदस्य सम्भवात् / न चास्य व्यक्तिभेद एव निमित्तम् / तदुपलम्भेऽपि स्थाण्वादिषु संशयदर्शनात् / निमित्तान्तरं [पं०] प्रकाशात्मके स्वत एव प्रकाशो न प्रदीपान्तरात् यथा वाऽश्वमांसे स्वत एवाशुचित्वम् / ये च परमाणवोऽतदात्मका अत्यन्तव्यावृत्यनारमकाऽसाधारणधर्माणस्तेषु विशेषयोगादेव प्रत्ययव्यावृत्तिर्यथाऽप्रकाशात्मकेषु घटादिषु प्रदीपादेव [कु०] बुद्विहेतव इति (कं. 323) अनेनव निषिद्धा / पीनः ककुद्यानित्युदाहरणं द्वयं[क] कुशृंगवत्संयोगित्वनिवृत्तये हेत्वसिद्धिमाशंक्य परिहरति यथाऽस्मदादीनामिति (कं. 323) व्यक्तिमेवस्य संभवादिति (कं. 323) हेतु सिद्धिः(दः) 1 विलक्षणोऽयमिति-दे। 2 विप्रकर्ष-कं. 1, कं. 2, विप्रकृष्टदृष्टे-व्यो. (694), विप्रकृष्टे-पा. 7 पु / 3 को दोष:-व्यो. (६९४)दे पुस्तकेऽयं पाठो नास्ति / 4 पीनककुमान-कं. 1, कं. 2 / 5 'यथा'-कं. 1, कं.२ . पुस्तकयो स्ति / 6 प्रत्ययव्यावृत्तिः-जे.२॥ 7 व्यक्तिभेदसम्भवात-कं.१, कं.२;व्यक्तिभेदस्य सद्भावात-जे. 2 /