________________ 686 भ्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् - प्रशस्तपादभाष्यम् शुक्लप्रत्ययः सजायते, अत्यन्ता'दृष्टे च प्रत्यभिज्ञानम् / यदि स्यान्मिथ्या भवेत् / / तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हति / अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यत इति चेत् ? न, तादात्म्यात् / इहातदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु न्यायकन्दली च नास्ति, आकृतेर्गुणस्य क्रियायाश्च तुल्यत्वात् / न च निर्निमित्तः प्रत्ययभेदो दृष्टः, तस्माद्यदस्य निमित्तं स विशेष इति / देशविप्रकर्षेण कालविप्रकर्षेण च दृष्टाः परमाणवः कस्यचित्प्रत्यभिज्ञाविषयाः सामान्यविशेषवत्त्वाद् घटादिवत् / न च पूर्वदृष्टेऽर्थे प्रत्यभिज्ञानं विशेषावगतिमन्तरेण भवति, अतोऽस्ति तस्य निमित्तं विशेषः / अत्र चोदयति-यदि पुनरिति / यथा योगजधर्मसामर्थ्याद्योगिनामतीन्द्रियार्थदर्शनं भवति, तथा विशेषमन्तरेणैव प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं च भविष्यतीति चोदनार्थः / ___ समाधत्ते-नैवमिति / यथा योगिनामशक्ले शुक्ल प्रत्ययो न भवति, अत्यन्तादृष्टे च प्रत्यभिज्ञानं न स्यात् / यदि स्यात् ? मिथ्याप्रत्ययो भवेत् / तथा अन्त्यविशेषमन्तरेण प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं च न भवितुमर्हति / योगजाद्धर्मादतीन्द्रियार्थदर्शनं न पुनरस्मानिनिमित्त एव प्रत्ययो 'भवतीत्यभिप्रायः / [पं०] प्रकाशो न स्वतो यथा वाऽश्वमांसस्प्रष्टणाम् (अ)श्वमांसस्पर्शादेवाऽशुचित्वं न स्वतः / सामान्यधर्मकेत्विति (कं. 324.12) तुल्याकृतिगुणत्वादिति हेतुः / [कु.] सिद्धसाधनत्वमाशंक्य निराकरोति -न चास्येति (कं. 323) सामान्यविशेषवत्त्वादिति (कं. 323) प्रमेयत्वादित्यर्थः / प्रत्येकमनुवर्तन्त इति (कं. 324) नित्यतया वर्तन्त इत्यर्थः / 1 दृष्टपूर्वे-दे। 2 मन्तरेण न योगजाद्-व्यो. (694) 3 दृष्टो-व्यो. (695) / 4 भविष्य-कं. 1, कं. 2 /