________________ 684 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् अथ विशेषपदार्थनिरूपणम् [264] 'अन्तेषु भवा अन्त्याः , स्वाश्रयविशेषकत्वाद्विशेषाः / विनाशारम्भरहितेष नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः / यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्लः शीघ्रगतिः 'पीनः ककुमान् महाघण्ट इति / तथास्मद्वि न्यायकन्दली [264] चतुर्युगचतुर्विद्याचतुर्वर्णविधायिने / / नमः पञ्चत्वशन्याय चतुर्मुखभृते सदा // विशेषव्याख्यानार्थमाह-अन्तेषु भवा अन्त्या इति / उत्पादविनाशयोरन्तेऽवस्थितत्वादन्तशब्दवाच्यानि नित्यद्रव्याणि, तेषु भवाः स्थिता इत्यर्थः / स्वाश्रयस्य सर्वतो विशेषकत्वाद् भेदकत्वाद्विशेषाः / एतद्विवृणोति-विनाशारम्भरहितेष्वित्यादिना / विनाशारम्भरहितेष्वित्यन्त्यपदस्य विवरणम् / अत्यन्तव्यावृत्तिबुद्धिहेतव इति च स्वाश्रयस्य विशेषकत्वादित्यस्य विवरणम् / प्रतिद्रव्यमेककशो वर्तमाना इति / द्रव्यं द्रव्यं प्रत्येकको विशेषो वर्तत इत्यर्थः / एकेनैव विशेषेण 'स्वाश्रयस्य व्यावृत्तिसिद्धरनेकविशेषकल्पनावयात् / यथा चेदं विशेषाणां लक्षणं भवति तथा पूर्व व्याख्यातम् / [पं०] [264] (अत्यं)तव्यावृत्तिस्वभावत्वादिति (कं. 324.10) व्याख्यानपदम् / अत्र च वाक्येऽयं भावार्थः - अन्त्यविशेषा अत्यन्तव्यावृत्यात्मका अतस्तेषु स्वत एव प्रत्ययव्यावृत्तिनं विशेषान्तरसम्बन्धात् / यथा प्रदीपे [कु.] [264] नन्वन्तो नाम विनाशः, तत्र च निवृत्तकार्याऽवयव (वा) एव भवन्ति, न च ते विशेषा इत्यत आहउत्पावविनाशयोरिति (कं. 323) इहैकैकदा (शः) इति (कं. 323) यद्येकस्मिन्नित्ययमर्थः स्यात्, तत एकस्मिन्द्रव्येऽनेके विशेषाः प्रसज्येरनित्यत आह-एकक इति (कं. 323) प्रथमासमर्थाच्छसि (दि) त्यर्थः / व्यासज्यवृत्तिरत्यंतव्यावृत्ति 1 अन्त्येषु-दे। 2 पौन-कं. 1, कं. 2 / 3 प्रतीकमिदं-जे. 1 पुस्तके नास्ति / 4 स्वाश्रयव्यावृत्ति-जे. 3 / 5 पूर्वमेव व्याख्यातम्-जे. 2 /