________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् टिप्पण 683 न्यायकन्दली पत्तिरस्ति शब्दस्यातद्विषयत्वात् प्रमाणान्तरस्याभावात् / अस्ति च शब्दा'दर्थप्रतिपत्तिस्तस्मान्नाभावोऽपि शब्दार्थः / न चान्यदेकं निमित्तं किञ्चिदस्ति / सर्वमिदमर्थजातं परस्परव्यावृत्तं प्रतिक्षणम'पूर्वमनुभयमानं न शब्दात् प्रतीयते / नापि प्रत्यक्षप्रतीतमपि हानोपादानविषयो भवेत, अपरिज्ञातसामर्थ्यत्वात् / अस्ति च शाब्दो व्यवहारः, अस्ति च प्राणभृन्मा'त्रानुबन्धिनी प्रत्यक्षपूर्विका हिताहितप्राप्तिपरिहारार्था लोकयात्रा / सैव च भिन्नासु व्यक्तिषु सामान्यमेकं व्यवस्थापयति / तद्विषया शब्दप्रवत्तिर्यच्चोपलभ्यते तज्जातीयत्वेन तदर्थ'क्रियायोग्यतां विनिश्चित्यापूर्वावगतेऽप्यर्थे लोकः प्रवर्तत इति / भिन्नेष्वनुगताकारा बुद्धिर्जातर्निबन्धनम् / अस्या अभावे नैवेयं लोकयात्रा प्रवर्तते // इति / इति भट्टश्रीश्रीधरविरचितायां पदार्थ प्रवेशकन्यायकन्दलीटीकायां सामान्यपदार्थः समाप्तः // [कु०] नन्वप्रत्यक्षेऽपि शक्रादौ संक (के)तो दृश्यते तद्वदत्रापि भविष्यतीत्यत आह-न च तस्मिन्निति (कं. 320) / ननु शब्दोऽभावमेव प्रत्याक्षय (?) तु तत्रैव प्रवर्तमानः पुरुषो नांतरीयकतयाऽभावं प्रत्यास्यतीत्यत आह-असंबन्धाच्चेति (कं. 320) असंम्बन्धमाशंक[त] स्वलक्षणात्मकत्वेनेति (कं. 320) अनारोपितस्य लक्षणतादात्म्येनेत्यर्थः / अप्र[ती]त इति (कं. 320) तादात्म्यारोपा हि अधिष्ठानप्रतीतिपूर्वक एव भवतीत्यर्थः / सामान्यमंगीकुर्वतः संकेतामपपत्तिमुपसंहरति सर्वमिदमिति (कं. 320) अपरिज्ञात-सामर्थ्यत्वादिति (कं. 321) सामान्यानंगीकारे तज्जातीयलिंगानुसां(सं)धानविरहादित्यर्थः / // [इति ] सामान्यम् // 1 दर्थे प्रवृत्तिः-कं. 1, कं. 2, जे. 2 / 2 मपूर्वमपूर्व-कं. 1, क. 2 / 3 प्रत्यक्षा-कं. 1, कं. 2 / 4 मात्रानुवतिनी। 5 यद्विषयाः शब्दात प्रत्ययाः प्रवृत्तयश्चोपलभ्यन्तं-कं.१, कं.२। 6 क्रियोप-कं. 1, कं.२। 7 निबन्धना-कं. 1, कं.२। 8 प्रभावेणवेयं-जे.१। 9 प्रवेश-कं. 1, कं. 2 /