________________ 682 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः / तत्र गौरव वक्तव्यो नसा यः प्रतिषिध्यते / गव्यसिद्धे त्वगौर्नास्ति तदभावे तु गौः कुतः // इति अथान्यापोहः 'शब्दार्थोऽनारोपितबाह्यत्वम् ? तत्राप्युच्यते, कोऽयमपोहो नाम ? किमगोरपोहो भावोऽभावो वा ? यदि भावः, स किं गोपिण्डस्वभावोऽथागोपिण्डात्मकः ? गोपिण्डात्मकत्वे तावदस्यासाधारणता, न चासा'धारणेऽर्थे शब्दप्रवृत्तिरित्युक्तम् / अगोपिण्डात्मकत्वेऽप्ययमेव दोषो दूषणान्तरं चैतदधिकम् / यद् गोशब्दस्यागौरित्ययमर्थः प्राप्नोति / यदि तु पिण्डव्यतिरिक्तमनेकसाधारणं वस्तुभतमपोहतत्त्वमिष्यते ? शब्दमात्रविषया विप्रतिपत्तिः / अथापोहोऽन्यव्यावृत्तिरूपत्वादभावस्वभाव इष्यते ? तदास्य प्रत्यक्षेण ग्रहणं न स्यात्, ज्ञानजनकस्यैव. ग्राह्यलक्षणत्वात् / अभावस्य च समस्तार्थक्रियाविरहलक्षणत्वात् / न च प्रत्यक्षागृहीतेऽर्थे सङ्कतग्रहणमस्तीत्यभावे शब्दस्याप्रवृत्तिरेव / न च तस्मिन् प्रतीयमाने श्रोतुरर्थविषया प्रवृत्तिः स्यात्, भावाभावयोरन्यत्वादसम्बन्धाच्च / स्वलक्षणात्मकत्वेनाभावप्रतीतावविवेकेन स्वलक्षणे प्रवृत्तिरिति चेत् ? 'यथोक्तं दृश्यविकल्प्याववेकीकृत्यातत्सन्निवेशिन्या भ्रान्त्या प्रवृत्तिः प्रतिपत्तणाम् इति / तदयुक्तम् / अप्रतीते तदात्मकतया अभावसमारोपानुपपत्तेः / न च श्रोतुस्तदानीमर्थप्रति किं(किम)गौरपोह इति (कं. 320) गोशब्दार्थतया स्वीकृतोऽपोह इ[त्य]र्थः / अयमेवेति (कं. 320) असाधारणत्वमेवेतीत्यर्थः / अगौरित्ययमर्थ इति (कं. 320) अश्वादिरयमित्यर्थः / द्वितीयपक्षमनद्य दूषयति अथापोह इति (कं. 320) अभावस्वभावेति (कं. 320) तश्च(च्च) ज्ञानकारणत्वाभावाद् बाह्यलक्षणत्वं नोपपद्यत इति भावः / 1 सिद्धश्चा इति पाठोऽर्थदृष्टया समीचीन इति कं. 2 पुस्तकसम्पादकस्य सूचनं स्वीकृत्य पाठोऽयं स्वीकृतः-सं। 2 शब्दार्थ-जे. 3 / 3 साधारणात्मके-कं. 1, कं. 2 / 4 पिण्डात्मके-कं. 1, कं. 2 / 5 गोशब्दस्य गौरित्ययमर्थो न प्राप्नोति-कं. 1, कं. 2 / 6 प्रत्ययत्वेन-कं. 1, कं. 2 / 7 यथोक्त-कं. 1 पुस्तके नास्ति, कं. 2 पुस्तके सम्पादकेन सूचितौ द्वावपि पाठौ जे. 1, जे. 2, जे. 3 पुस्तके चास्ति / अधिकं तु अतत्सन्निवेशिभ्योऽपि इति पाठान्तरं ने. 1 पुस्तके, तत्तु जे. 2 पुस्तके, कं. 1, कं. 2 पुस्तकयोश्चोपलभ्यते। 8 तदात्मतया-जे. 1, जे. 2 /