________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 677 प्रशस्तपादभाष्यम् यद्यप्यपरिच्छिन्नदेशानि 'सामान्यानि, तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि / अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति / ___इति प्रशस्तपादभाष्ये सामान्यपदार्थः समाप्तः / न्यायकन्दली [261) एतदुक्तं भवति-सास्नादिसंस्थानविशेषो गोत्वस्य व्यञ्जकः, केसरादिसंस्थानविशेषोऽश्वत्वस्य, विशिष्टग्रीवादिसंस्थानविशेषो घटत्वस्य, प्रतीतिनियमात् / एते च संस्थानविशेषा न सर्वेषु पिण्डेषु साधारणाः, अपि तु प्रतिनियतेषु भवन्ति / तत्र यद्यपि सर्व सामान्यं सर्वत्रोपजायमानेन 'स्वविषयेणेव पिण्डान्तरेणापि सम्बद्धं क्षमते, तथापि यस्याभिव्यञ्जकं यत्र पिण्ड सम्भवति तस्य तत्रैव समवायो नान्यत्र / एवं 'सामग्री नियमादपि सामान्यसम्बन्धनियमः / एष हि तन्त्वादीनां कारणानां स्वभावो 'यदेतैरुत्पाद्यमाने द्रव्ये पटत्वमेव समवैति, 'नान्यत् / एष हि मत्पिण्डादीनां महिमा यत्तः क्रियामाणे द्रव्ये घटत्वमेव समवैति, नान्यत् / न तावत् सामान्यमन्यतो गत्वान्यत्र सम्बध्यते, निष्क्रियत्वात् / तत्रापि यदि पूर्व नासीत् ? तत्रोपजायमानेन पिण्डेनास्य सम्बन्धो न स्यात् / दृश्यते च सर्वत्रोपजायमानेन पिण्डेन सम्बन्धः, तस्मात् सर्वं सर्वत्रास्तीति कस्यचिन्मतं तन्निराकुर्वन्नाहअन्तराले संयोगसमवायवृत्त्यभावादव्यपदेश्यानोति / अन्तरालमिति आकाशं वा दिगद्रव्यं [कु०] [261] विषय विशेषसमवायिसमवायनियमे प्रमाणस्यास्फुटत्वानुक्तमर्थं संगृह्य दर्शयति एतदुक्तमिति (कं. 317) -अत्र प्रतीतिनियम एव समवायनियमे प्रमाणम् / तत्र तु प्रयोजक: संस्थाननियमः / तत्रापि प्रयोजक: कारणस्वभाव इति विवेकः / एवं सामग्रीनियमादपीति (कं. 317) नियतप्रतीत्युत्पादकसंस्थानोत्पादनद्वारेणेति भावः / आगामिभाष्यं समर्थयितुमुक्त विद्यदन (?) माशंकते न तावदिति (कं. 317) न वा सम्बद्धानामेवेति शेषः / आधाराधेयभावस्य संबन्धांतरनान्तरीयकत्वादिति भावः / वस्तुशक्तेरिति (कं. 317) बलादन्यतो नागतमपि सामान्य जायमानेन पिण्डेन संबध्यत इत्यंगीकर्तव्यमित्यर्थः / 1. सामान्यानि भवन्ति-कं. 1, कं. 2 / 2 स्वविषयेणैव-कं. 1, कं. 2, जे. 3; स्वविषयेण च-जे. 2 / 3 तस्या-जे. 3 / 4 सामन्या -कं. 1, कं.२। 5 यदेतैरुत्पद्यमाने-कं. १,कं.२। 6 नापरं-जे.२। /