________________ 678 न्यायकन्दलीसंवलितप्रशस्तपावमाष्यम् न्यायकन्दली वा स्ति'मितवायुर्वा मूर्तद्रव्याभावो वा, तेषु गोत्वादिसामान्यानां न संयोगो नापि समवायः / न चासम्बद्धानामेव तेषामवस्थाने प्रमाणमस्ति / अतोऽन्तराले न सामान्यानि व्यपदिश्यन्ते न सन्तीत्यर्थः / कथं तर्हि तत्रोपजायमानेन पिण्डेन सम्बध्यन्ते ? कारणसामर्थ्यात् / संयोगो ह्यन्यतः समागतस्य भवति, तत्रैवावस्थितस्य वा भवति / तस्माद्विलक्षणस्तु समवायो यत्र यत्रव पिण्डोत्पत्तौ कारणानि व्याप्रियन्ते, तत्र तत्रैव कारणानां सामर्थ्यात् पिण्डऽन्यतोऽनागतस्य तत्रस्थितस्यापि सामान्यस्य भवति, वस्तुशक्तेरपर्यनुयोज्यत्वात् / [262] अत्राहुः सौगता:-प्रतीयमानेषु भेदेषु मणिसूत्रववेक'स्याकारस्यानुपलम्भात् .. सामान्यं नास्त्येवेति / तदयुक्तम्, अनेकासु गोव्यक्तिध्वनभयमानास्वश्वादिव्यक्तिविलक्षणतया 'सामान्याकारप्रतीतिसम्भवात् / यदि शाबलेयादिषु परस्परभिन्नेष्वेकमनुवत्तं न किञ्चिदस्ति, यथा गवाश्वव्यक्तयः परस्परविलक्षणाः 'संवेद्यन्ते तथा गोव्यक्तयोऽपि संवेद्याः स्युः / यथा वा गोव्यक्तयः सरूपाः प्रतीयन्ते तथा गवाश्वव्यक्तयोऽपि प्रतीयेरन्, विशेषाभावात् / नियमेन तु गोव्यक्तयः प्रतीयमानाः सरूपाः स्ववर्गसाधारणमश्वादिव्यावृत्तं किञ्चिदेकं रूपमापक्षिपन्ति, एकार्थक्रियाकारित्वादेकहेतुत्वाद्वा / गोव्यक्तीनामेकत्वमिति चेत् ? नासति सामान्ये 'व्यक्तीनामिव व्यक्तिहेतूनां व्यक्तिकार्यागामपि परस्परव्यावृत्तानामेकत्वात् / किञ्च, [कु०] [262] "तत्राहुः सौगता इति (कं. 317) उक्तं प्रमाणमजानाना इति शेषः / उक्तमेवानुवृत्तिप्रत्ययरूपं प्रमाणं दर्शयति अनेकास्विति (कं. 317) अनुकूलं तर्कमाह यदीति (कं. 317) उपसंहरति नियमेनेति (कं. 318) एकार्थक्रियाकारित्वादिति (कं. 318) एकार्थनिदोहनवहनादिलक्षणा एको हेतुः उ(व)षभादिः / नामतीति (कं. 318) एकजातिकोडी कृतामेवार्थक्रियाणां हेतूनां चकत्वमिति भावः / न वायं नियम इत्याह कि चेति (कं. 318) हेतुभेदे एकाकारां प्रतोति कार्याभेदेऽप्यनेकाकारां प्रतीति दर्शयति या च गौरिति (कं. 318) अपि चेति (कं. 318) सामान्यद्वारा शब्दार्थयोः संके[ते सति वाच्यवाचकभावे घटते / सामान्यानंगीकारे तु न घटत एवेत्यर्थः / 1 स्तिमितवेग-कं. 1, कं 2 / 2 वा व्यवस्थितस्य-जे. 2 / 3 एकस्यानुपलम्भात-जे. 1 / 4 समानाकारजे. 2 / 5 विद्यन्ते-जे.१। 6 माक्षिपति-कं. 1, क. 2 / 7 हेतुत्वाच्च-कं. 1, क. 2 / 8 गोव्यक्तीनामिव-जे 2 / 9 अत्र एकत्वादसम्भवात् इति मुद्रितः पाठः न तु 'एकत्वात्' तत्र-जे. 1 इत्यत्र 'एकत्वाभावात्' जे. 2. जे. 3 इत्यत्र 'एकत्वासम्भवात्' इति पाठः / अत्र एकत्वासम्भावात् इत्यनन्तरम् ‘एकत्वम्' इति पदे अध्याहार्यमाणंऽर्थः समीचीनो भवति / तथा हि 'न असति सामान्य व्यक्तीनामिव व्यक्तिहेतूनाम् एकत्वम् व्यक्तिकार्याणामपि परस्सरव्यावृत्तानामेकत्वासम्भवात' इत्यर्थः-सम्पादकः / 10 अत्रा०-कं.