________________ 676 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [260-263] द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् / प्रत्येक वाश्रयेषु लक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम् / न्यायकन्दली [260} द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम्, द्रव्यत्वादयः प्रत्येक द्रव्यादिष्वेव नियताः / प्रत्ययभेदाश्चैतेषु दृश्यन्ते, तस्माद् द्रव्यादिषु वृत्तिनियमात प्रत्ययभेदाच्च द्रव्यत्वादीनां परस्परतो भेदः / अभेदात्मकं सामान्यमिति पूर्व प्रतिज्ञामात्रेणोक्तं तदिदानी प्रमाणसिद्धं तस्य करोति-प्रत्येकं स्वा'श्रयेष लक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम् / लक्ष्यतेऽनेनेति लक्षणमनुग'ताकारं ज्ञानम् / प्रत्येकं प्रतिपिण्डमविशेषाद्वैलक्षण्याभावाद्विशेषे भेदे लक्षणस्य प्रमाणस्याभावाच्च सामान्यस्य स्वाश्रयेष्वेकत्वमभिन्न'स्वभावत्वमित्यर्थः / स्वविषये सर्वत्र सामान्यं समवैति नान्यत्रेति यत्पूर्वमुक्तं तत्र कारणमाहयद्यपीति / यद्यपि सामान्यानि यत्र तत्रोपजायमानेन पिण्डेन सम्बन्धादपरिच्छिन्नदेशान्यनियतदेशानि, तथाप्युपलक्षणस्याभिव्यञ्जकस्यावयवसंस्थानविशेषस्य नियमानियतत्वात् पिण्डोत्पादककारणसामग्रीनियमाच्च स्वविषये सर्वत्र समवयन्ति नान्यत्रेति / [कु०] [260] द्रव्यत्वादय इति (कं. 316) परापरभतानां न्यूनाधिकव्यक्तिवृत्तितया भेदः / विरुद्धानां तु मिथ: क्तिवत्तितया तद दृष्टव्यम / वैलक्षण्याभावादिति (कं. 316) अनेनानुवृत्तिप्रत्ययरूपं प्रत्यक्षं में (क्षमेव ?) विपक्षे बाधकतर्कसहितं सामान्यस्य व्यक्तिभेदविरहे प्रमाणं दर्शितकारणमाहेत्यर्थः / .. अनियतदेशानीति (कं. 317) अप्रैवेति (?) नियंतुं शक्यानीत्यर्थः / संस्थाननियम एव कुत इत्यत आहपिंडोत्पादकेति (कं. 317) सामग्रोनियमादिति (कं. 317) सामग्रीस्वभावभेदातित्यर्थः / 2 अनुगताकार-कं. 1, कं. 2, जे. 3 / 3 स्वभाव-कं. 1, कं. 2 / 1 स्वाश्रयेष्विति-कं. 1, कं. 2 / 4 तस्य-कं. 1, कं.२।