________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटोकात्रयोपेतम् न्यायकन्दली द्वितीये तु कल्पे व्याहतिरेव, विलक्षणाकारसंवित्तिरेव हि भेदसंवित्तिः / तस्याः सम्भवे सति तयोरभेवप्रतिपत्तिरेव 'नास्ति, कथं भिन्नयोरभेदो व्यवस्थाप्यते ? कयं तहि तादात्म्यप्रतीतिः ? न कथञ्चिदिति वदामः / यदि तावदेक आकारोऽनुभूयते, एकस्यैव वस्तुनः प्रतीतिरियं नोभयोः / अथ द्वावाकारावनुभूयेते तदास्याः . प्रतीतेरसम्भव एव / यत्पुन गौरित्ययमविभागेन संवेदनं तत्समवायसामर्थ्यात् / संयोगे हि द्वयोः संसर्गावभासः, समवायस्य पुनरेष महिमा यदत्र, सम्बन्धिनावयःपिण्डह्निवत पिण्डीभतावेव प्रतीयते 'जातिरेव च व्यक्तेः स्वरूपम् / तेन सत्यपि भेदे बदरादिवत् कुण्डस्य जातितो व्यक्तेः स्वरूपं पृथग न निष्कृष्यते / परस्परपरिहारेण तूपलम्भोऽस्त्येव, दूरे गोत्वाग्रहणेऽपि पिण्डस्य ग्रहणात् / पूर्वपिण्डाग्रहणेऽपि पिण्डान्तरे गोत्वग्रहणात् / तस्माद्वयक्तेरत्यन्तं भिन्नमेव सामान्यमिति ताकिकाणां प्रक्रिया / (के 316) तथात्वे वा न क्वचिदात्यन्तिको भेदः स्यादिति भावः। कथमिति (क. 316) न कथंचिदित्यर्थः / सुहृभूत्वा पृच्छति कथं तहीति (कं 316) भिन्नयोरेकत्वं तादात्म्यं कि वा भागेन सवेदनः (म). तत्राद्यानंगीकार पगहन इत्यत आह-न कथंचिदिति (कं 316) कथमनगोकार इत्यत्र प्राचीमेव युक्तिमनुवदति यदि तावदिति (कं. 316) / द्वितीयस्यान्यथासिद्धिरित्याह-'यस्त्विति (कं. 316) / ननु यदि जातिव्यक्त्योः समवायोऽपि संसर्गः स्यात्तहि दंडपुरुषसंयोग संयोग इव किमिति न प्रतीयत इत्यत आह-संयोग इति (कं. 316) पिण्डीभूतावेवेति (कं. 316) एवकाराभिन्नक्रमः सम्बन्धिनावित्यस्यानन्तरं द्रष्टव्यः / पिंड(डी)भूतावपृथग्भूतौ सम्बन्धिनावेवेच्छं (?) प्रतीयेते / सम्बन्धस्तु स्वं (?) विशिष्टप्रत्ययेण(न) न कार्येणानुमीयत इत्यर्थः / नन्वयःपिण्डो वहि विनापि क्वचिदपलभ्यते, वतिरप्यःपिण्ड विना; नवं कदाचिदपि जातिव्यक्ती, तत्कथमनयोअंदसिद्धिरित्यत आह-ईदशत्वेति (?) - अयं भाव: कि जातिव्यक्त्योरसम्बद्धयोरनवस्थानाद्धदो निराक्रियते, परस्परपरिहारे नानुपलभाद्वा / तत्राद्योऽप्रयोजक अयुतसिद्धरुपाधित्वात् द्वितीय असिद्ध एवेति / 'पृथक् निश्चयेति (कं. 316) अवस्थितनये विशेषो द्रष्टव्यः / तार्किकाणामिति (कं. 316) विशेषणपृयगवस्थितयोरनुपलभस्याभेदहेतोरनुकूलतर्कविरहसूचयितुम् / 3 जातिरेव न च-कं. 1, कं. 2 / 1. नास्त्येव-जे 2 / - ४यत्पुनरिति-कं.१ / 2 गोरियमिति-जे. 1. जे. 3, गौरयमिति-जे.२। 5 पृथक न निष्क्रयत इति कं 2 /