________________ न्यायकन्वलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली कत्वे सिद्धे शाबलेयाद् भेदोऽपि सिद्धयति / अयमेव हि सामान्यस्य पूर्वपिण्डाद् भेवो यत् पिण्डान्तरात्मकत्वम् / इदमेव च सामान्यरूपत्वं यदुभयात्मकत्वम् / भेदाभेदावेकस्य विरुद्धाविति चेत् ? न, युक्तिजस्य भवतः साम्प्रतमेतदभिधातुम् / तद्विरुद्धं यत्र बुद्धि'विपर्यस्यति / यत्तु सर्वदा प्रमाणेन तथैव प्रतीयते, तत्र विरोधाभिधान मेव विरुद्धम् / अन्यत्रैवं न दृष्टमिति चेत् ? किं वै प्रत्यक्षमपि अनुमानमिव दृष्टमनुसरति ? . हतं त_दमनवस्थया / अथेदं स्वसामर्थ्यात् प्रवर्तते ? तदा 'यथा यद्वस्तु यद्दर्शयति तथैव तत्, न त्वेतदन्यत्रादर्शनेन प्रत्याख्यानमर्हति 'सर्वभावप्रत्याख्यानप्रसङ्गात् / तस्मात् सामान्य व्यक्त्युत्पादविनाशयोरुत्पादविनाशवत्त्वाद्वयक्त्यन्तरावस्थाने चावस्थानान्नित्यमनित्यं च, न पुननित्य मेव / __ एवं प्राप्तेऽभिधीयते-कि जातिव्यक्त्योरविलक्षणमाकारं 'गल्तीप्रतीतिस्तयोरभेदं गृह्णाति ? आहोस्वित् परस्परविलक्षणावाकारौ ? आये कल्पे तावदेकमेव वस्तु स्यात्, नोभयोरेकात्मकत्वम् अविलक्षणाकारबुद्धिवेद्य'त्वस्याभेदलक्षणत्वात् / (कं. 315) तत्र प्रतीतिबलेन परस्परभिन्नाभिन्नाभिव्यक्तिभिरयं गौर: [अय] श्याम इति जाते.. सामानाधिकरण्य विषयीकुर्वन्प्रत्यक्षप्रमाणं दर्शितम्। सप्रति तस्य प्रतिकूलतर्कमाशंक्य परिहरति भेदाभेदादावपोति (कं. 315) युक्तिजस्येति (कं. 315) मैवं वक्तव्यम् , यादृशो विषयस्तादृश्येव बुद्धया भवितव्यम् ; अन्यथादृशी तु सा तेन सह विरुध्यत इत्यर्थः / अस्त्वेवं ततः किमित्यत आह-यत्त्विति (कं. 315) अन्यत्रेति (क. 315) दण्डपुरुषादावेवं भिन्नाभिन्नस्वभावत्वं दृष्टमित्यर्थः / कि वै प्रत्यक्षमपीति (कं. 316) व्याप्तिंबलेन प्रवर्तते, यतोऽन्यत्रवमदर्शनादिहापि नानुमन्यत इत्यर्थः / एवमनंगीकारे को दोष इत्यत आह-हतमिति (कं. 316) व्याप्तिग्राहकमपि प्रत्यक्षं प्रत्यक्षान्तरगहीतां व्याप्तिमपेक्षते तथापि पक्षान्तरमित्यनवस्थया न क्वचित्प्रवर्तत इत्यर्थः / नन्वेव हि नश्यनीभिर्व्यक्तिभिः सह तादात्म्यात्मामान्येनापि नष्टव्यम, न च नष्टव्यक्त्यन्तरे पुनरवस्थान युज्यत इत्यत आह-तस्मादिति (कं. 316) यथा दर्शनानुसारेण भेदाभेदी तथा नियत्वानित्यत्वेऽपीति भावः / नोभयोरिति (क. 316) एकात्मत्वमुभयोर्वक्तव्यम् / न चाविलक्षणत्वे तत्संभवतीति भावः / नास्ति चेति 1 विपर्येति-कं. 1, कं. 2 / 2 प्रतीयते-जे. 3 / 3 यथा वस्तु -जे. 1 / 4 सर्वाभाव-जे. 3 / 5 मेवेति-जे. 1 / 6 गणाति तत्प्रतीतिः? उत-कं. 1, कं.२। 7 वेद्यस्य-जे.१। 8 भेदाभेदाविति के 2 / १'च' इति वि. पुस्तके नास्ति।