________________ टिप्पणपत्रिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली [259] अत्रके वदन्ति / भिन्नेष्वनुगता बुद्धिः सामान्य व्यवस्थापयति / सा च प्रतिपिण्डं दण्डपुरुषाविव न 'स्वतन्त्र सामान्यविशेषलक्षणे द्वे वस्तुनी प्रतिभासयति / नापि तयोर्विशेषणविशेष्यभावः, 'गोत्ववानित्येवमनुदयात् / किं तु तादात्म्यग्राहिणी प्रतीतिरियम्, गौरयमित्येकात्मतापरामर्शात्, उभयोरन्योन्यप्रहाणेन स्वरूपान्तराभावाच्च / अनुवृत्तता हि गोत्वस्येव सामान्यान्तरस्यापि स्वरूपम्, व्यावृत्ततापि गोव्यक्तेरिव' व्यक्त्यन्तराणामपि स्वभावः / सामान्यान्तरव्यावृत्तं तु गोत्वस्य स्वरूपम्, व्यक्त्यन्तरव्या वृत्तिश्च गोव्यक्तेः स्वभावः परस्परात्मतामन्तरेणान्योन्यं न शक्यते निर्देष्टुम् / न च तस्य स एव स्वभावः स एव च सम्बन्धीत्युपपद्यते, निःस्वभावस्य सम्बन्धाभावात् / तस्माज्जातिव्यक्त्योः परस्परात्मतैव तत्त्वम् / एवं सति भेदाभेदवादोऽपि सिद्धयति / यथा हि शाबलेयो गौरित्येवं प्रतीयते तथा बाहुलेयोऽपि / न चास्ति कस्यचिद् बाधः शाबलेय एव गौर्न बाहुलेय इति / किन्तु सर्वेषामेकमतित्वमेव 'स गौरयमपि गौरिति' / तत्र प्रतीतिबलेन शाबलेयात्मकस्य गोत्वस्य बाहुलेयात्म[कु०] [259] एवं प्रसाधितं जातिव्यक्त्योरात्यंतिकं भेदमसहमानात्परानुच्छपयति अति (कं. 315) स्वतंत्र इति (कं 315) अत्यंतभिन्न इत्यर्थः / . नन्वभिन्नयो: कथ विशेषणविशेष्यभाव इत्यत आह-नापि तयोरिति (कं. 315) / ननु यदि भेदं विशेषणविशेष्यतां न गृह्णाति तत्कथं सामान्यं (म ,वस्थापयतीत्यत आह - किन्विति (कं. 315) तादात्म्यग्राहिणीति (कं. 315) तादात्म्यत्तया सामान्यग्रहणात(त् ) तव्यवस्थापयतीत्यर्थः / 'एकाकारेणेति सम्बन्धप्रतिपादकशब्दोल्लेखविरहेण सामान्याधिकरण्यावमर्शनादित्यर्थः / नन्वनुवृत्तत्व सामान्यस्य स्वरूपं व्यावृत्तत्वं च व्यक्तेः स्वरूपं परस्परपरिहारेणैव प्रतीयत इत्यत आहअनुवृत्तता हीति (कं. 315) सामान्यान्तरस्यापीति (कं. 315) अश्वादिरित्यर्थः / ततश्च तन्मात्र स्वरूपमित्यर्थः / तर्हि कीदशमनयोः स्वरूपमित्यत आह-सामान्यान्तरध्यावृत्तं त्विति (कं. 315) त_यमेव स्वरूपभेदोऽस्त्वित्यत आहपरस्परेति (कं. 315) सत्यमयं स्वरूप भेदः / स एव तु परस्परमन्तरेण न संभवतीत्यर्थः / नन्वन्यान्यव्यावृत्ततया परस्परात्मतामन्तरेणापि स्वरूपभेदोऽस्त्वित्यत आह - न च तस्य स एवेति (क. 315, 'निःस्वभाववत्वादिति (कं. 315) अश्यावृत्तस्वभाव विरहात्परस्परव्यावृत्ततया व्यावृत्तात्मकत्वे चेतरेतराश्रय प्रसगादिति भावः / तत्किमत्यन्तमभेद एव जातिव्यक्त्योः , तथा सति व्यपदेशाभेदे तदभावे कथं तादात्म्यवाचोयूक्तिरपीत्यत आह-तत्रेति .1 स्वातन्त्र्येण-कं-१, कं. 2 / 2 गोत्वा गोत्ववान-क. 1, कं. 2, जे; 3; अत्र जे. 1 पुस्तके 'गौः' इति पदमध्याहार्य गोत्ववान् इति समुचित: पाठोऽस्ति / 3 गोव्यक्त:-कं. 1, कं. 2 / 4 व्यावत्तेश्च-जे. 1, जे. 3 / 5 णान्यो न-कं. 1, कं. 2 / 6 अयं पाठो नास्ति वि. पुस्तके। 7 भावस्य सम्बन्धाभावादिति वि. पुस्तके / 85.