________________ 672 ग्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् एवं पथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनवृत्तिव्यावृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः / 'एतानि द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि, स्वाश्रय विशेषकत्वाद् भक्त्या विशेषाख्यानोति / [258-259] लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं सिद्धम् / अत एव च नित्यत्वम् / न्यायकन्दली. विशेष'रूपता ? आहोस्विदुभयरूपता ? अत्राह-एतानीति / समानानां भावः सामान्यमिति सामान्यलक्षणं व्यत्वादिषु विद्यते, स्वाश्रयं सर्वतो विशिनष्टोति विशेष इति तु लक्षणं नास्ति / अत एतानि मुख्यया वृत्त्या सामान्यान्येव न विशेषाः, विशेषसंज्ञा तूपचारेण लभन्ते / विशेषो हिं स्वाश्रयं सर्वतो विशिष्टि, द्रव्यत्वादिकमपि विजातीयेभ्यः स्वाश्रयस्य विशेषकमित्येतावता साधर्म्यणोपचारप्रवृत्तिः / [258] 'द्रव्यत्वादीनि द्रव्यादिव्यतिरिक्तानि न भवन्ति, अतस्तेषां पृथक्कार्यनिरूपणमन्याय्यमित्यत्राह-लक्षणभेदादिति / अनुगताकारबुद्धिवेद्यानि द्रव्यत्वादीनि, व्यावृत्तिबद्धिवेद्याश्च द्रव्यादिव्यक्तयः, तस्मादेषां द्रव्यत्वादीनां लक्षणभेदात् प्रतीतिभेदाद द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वम् / अत एव च नित्यत्वम् / यत एक सामान्यस्य द्रव्यादिभ्यो भेदः, अत एव नित्यत्वम् / द्रव्याद्यभेदे सामान्यस्य द्रव्यादिविनाशे विनाशस्तदुत्पादे चोत्पादः स्यात्, भेदे तु नायं विधिरवतिष्ठत इति / [कु.] मनुगताकारेति (कं. 315) बुद्धिभेदस्यैव तद्भेदसाधकतया निरूपणम् , नत्वन्यतः सिद्धभेदस्य बुद्धिरूपकार्यनिरूपणमिति भावः। अत एवेति (कं. 315) भेदसाधकस्यानुवृत्तिप्रत्ययस्यानुकूलस्तर्क :- विनाशकारणभावे सति भावरूपत्वान्नित्यत्वं तद्रव्याघभेदेनोपपद्यत इत्यर्थः / 1 एतानि तु-कं. 1, कं. 2 / 2 विशेषात्तु-वे। 3, 4 स्वरूपता-कं. 1, कं. 2 / 5 विशेषण-कं. 1, कं. 2 / 6 द्रव्यत्वानि-जे. 1, जे.३।