________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 671 प्रशस्तपादभाष्यम् [257] अपरं द्रव्यत्वगुणत्वकर्मत्वादि 'अनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्य विशेषश्च भवति / तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, गुणकर्मभ्यो 'व्यावृत्तिप्रत्ययहेतुत्वाद् विशेषः / तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिहेतुत्वात् [सामान्यम्, द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः / तथा कर्मत्वं परस्परविशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः] / ___ न्यायकन्दली (257) अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति / द्रव्यत्व द्रव्येष्वनुवत्तिप्रत्ययहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिहेतुस्वाद्विशेषः / गुणत्वं गुणेष्व'नुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, द्रव्यकर्मभ्यो ध्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः / तथा कर्मत्वं परस्परविशिष्टेषुत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः / द्रव्यत्वादिवत् पृथिवीत्वादीनामप्यनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्यविशेषभावोऽस्तीत्याह-एवमिति / प्राणिगतानि सामान्यानि गोत्वाश्वत्वादीनि, अप्राणिगतानि घटत्वपटत्वादीनि / किं द्रव्यत्वादीनां सामान्यरूपत्वं वास्तवम् ? किं वा [टि.] स्वलक्षणमेकमारोपितबाह्यत्वमिति चोच्यते / तत्सामान्यं संसर्गविषयः। एकप्रत्यवमर्शस्य इति प्रत्यवमों विकल्पः / न च तस्मिन्प्रन्तीयमाने इति तस्मिन्नभावे इत्यर्थः / "शब्दस्यातद्विषयत्वाद् इति शब्दो ह्यभावविषयो (नार्थ)शब्दविषयोऽतो न शब्दादीप्रतीतिः / न च शब्दं विहायार्थप्रतिपत्ती प्रमाणान्तरमस्ति / सामान्यपदार्थः / / न भवन्तीति (कं. 315) भेदसाधकाभावादित्यर्थः / सामान्यविशेषयोः परस्परविरोधादन्यतरस्य गौणत्वमवश्यंभावि, तत्कतरदत्र गोणमिति प्रश्नार्थ: / पृथक्कार्यनिरूपणमिति (कं. 315) बुद्धिरूपकार्यनिरूपणमित्यर्थः / 1 अनुवृत्तिव्यावृत्तिहेतुत्वात्-कं. 1, कं. 2, दे, पा. 6 पु। 2 अनुवृत्तिहेतुत्वात-कं. 1, कं. 2 / 3 व्यावृत्तिहेतुत्वात्-कं. 1, कं. 2 / 4 [] एतच्चिह्नान्तर्गतः पाठः दे पुस्तके नास्ति / 5 ष्वनुवृत्तिहेतुत्वात-जे. 3 / 6 स्वरूप-कं. 1, कं.२। 7 शब्दस्य-अ, ब, क / 8 पदार्थसमाप्तो दृश्यमाना पूष्पिका सामान्यपदार्थसमाप्ती नास्ति /