________________ 668 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् अथ सामान्यपदार्थनिरूपणम् [255] सामान्यं द्विविधम्-परमपरं च / स्वविषयसर्वगत'मभेदात्मकमनेक वृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणं स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमन'वृत्तिप्रत्ययकारणम् / न्यायकन्दली [255] जयन्ति जगदुत्पत्तिस्थितिसंहृतिहेतवः / विश्वस्य परमात्मानो ब्रह्मविष्णुमहेश्वराः // __ 'सामान्यं व्याचष्टे-द्विविधं सामान्यं परमपरं चेति / कृतव्याख्यानमेतदुद्देशावसरे / 'सर्व सर्वगतं सामान्यमिति केचित् / तनिषेधार्थमाह-स्वविषयसर्वगतमिति / यत्सामान्यं यत्र पिण्डे प्रतीयते स तस्य स्वो विषयः, तत्र सर्वस्मिन् गतं समवेतम्, सर्वत्र तत्प्रत्ययात् / सर्वसर्वगतत्वाभावे त्वनुपलब्धिरेव प्रमाणम् / 'अभेदात्मकम्, अभिन्नस्वभावम् / येन स्वभावेनैकत्र पिण्डे वर्तते सामान्यं तेनैव स्वभावेन पिण्डा. न्तरेऽपि वर्तते, तत्प्रत्ययाविशेषादित्यर्थः / 'अनेकेषु पिण्डेषु वृत्तिर्यस्य तदनेकवृत्ति / [टि०] // अथ सामान्यम् // - [255 to 263] अत एवात्र बाधकहेतव इति :-यदेकं तदेकत्रव वर्तते यथैकभाजनगतं तालफलादि / यदनेकवृत्ति तदनेकं यथानेकभाजन गतं तालफलादि, इत्याद्यवयविवादोक्तबाधहेतवः / नातिरेव "च व्यक्तेः स्वरूपम् [कु०] [255] कृतव्याख्यानमिति (कं. 312) एकव्यक्तिसमाविष्टयोनियमेन परापरभाव इत्यादि व्या (ख्या) त[मि]. त्यर्थः / सर्व सर्वगतमिति (कं. 312) आका[शा ?]दिसामान्येनेति शेषः। स सस्य स्वविषय इति (कं. 313) मस्याना (मत्स्यानां ?) जलविषय इति विषयशब्दस्यान्यत्रभावार्थत्वादित्यर्थः। तत्प्रत्ययाविशेषादिति (कं. 313) विशेषत्वेऽनुगमायोगादित्यर्थः / नन्वेतेन वृत्तितं ना(?)यथाऽनेकभाजनगत ता]लफलानीत्यत आह-अभिन्नस्वभावमनेकत्रेति (कं. 313) इदमनुमानं मिग्राहकप्रमाणमित्यर्थः / अभेदस्वभावमित्यादिपदत्रयं समुचितद्रव्यादिभ्यः सामान्यस्य वैधयंप्रतिपादायेति दर्शयितुं संगति करोति द्वित्वाविकमपीति (कं. 313) यद्यप्यन्येनैव पदे[न] वैधयं 1 मभिन्ना-कं. 1, कं.२। 2 नगमप्रत्ययकारि-कं. 1, कं.२। 3 बुद्धि-३.(६८६)यो दे, पा. 5 पु. / 4 सामान्यं परमपरं चेति-जे.२। 5 सर्व-कं. 1, कं. 2, जे.२। 6 अभिन्ना-कं. 1, कं. 2 / 7 अनेकेषु वृतियस्य-जे.१। 8 'अथ सामान्यम्' ड-पुस्तके नास्ति / 9 एव तत्र-म., एव चात्र-जे. 2; एवात्र-जे. 1, 3 / 10 गत-अ,ब। 11 च न व्यक्ते:-म. /