________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 667 प्रशस्तपादभाष्यम् महाभूतानां प्रक्षोभणम् / 'अभिषिक्तानां मणीनां तस्करं प्रति गमनम्, अयसोऽयस्कान्ताभिसर्पणं चेति / इति प्रशस्तपादभाष्ये कर्मपदार्थः समाप्तः // . न्यायकन्दली भिषिक्तानां मणीनां तस्करं प्रति गमनम्, अयसोऽयस्कान्ताभिसर्पणं च सर्वमेतददृष्टकारितमिति / हिताहितफलोपायप्राप्तित्यागनिबन्धनम् / कर्मेति परमं तत्त्वं यत्नतः क्रियतां हृदि // इति भट्टश्रीश्रीधरकृतायां पदार्थप्रवेशन्यायकन्दलीटीकायां कर्मपदार्थः समाप्तः / सप्रयोजनमस्यत्या (स्त्या) तिवाहिकम् / महाप्रलयानन्तरावस्थेति (कं. 310) स्वर्गादिशरीरहेतुमन[:]संभवाप्न व्यर्थ विशेषणत्वम् / [इति] कर्म // 1 अभिवासितमणीमां-दे.