________________ 662 प्यायकम्बलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [252] प्राणाख्ये तु वायो कर्म आत्मवायुसंयोगादिच्छा द्वेषप्रयत्नापेक्षाज्जाग्रत इच्छानविधानदर्शनात्, सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षात् / न्यायकन्दली यदवयविनः संस्कारादनियतदिग्देशसंयोगविभागनिमित्तं कर्म तद् भ्रमणम् / पार्श्वतः प्रतिनियता ये दिग्देशास्तैः सहावयवानां विभागसंयोगयारुत्पत्तौ सत्यां यदवर्यावनः संस्कारादनियतदिग्देशः सर्वतोदिक्कविभागसंयोगयो निमित्तं कर्म जायते तदभ्रमणम् / प्रथमं चक्रावयविनि दण्डसंयागात् कर्मोत्पद्यते / 'उत्तरोत्तराणि कर्माणि 'नोदनादभिघातात् कर्मजात् संस्काराच्च भवन्ति / एवं वेगाद दण्डसंयुक्ते चक्रावयवे आद्यं कर्म दण्डसंयोगात्, अवयवान्तरेषु च संयुक्तसंयोगात्, दण्डसंयुक्तस्यावयवस्योत्तरोत्तरकर्माणि संस्कारान्नोदनाच्च / अपरेषां संस्कारात्, संयुक्तसंयोगाच्च / दण्डविगमे तु चक्रे तदवयवेषु च संस्कारादेव केवलात् / उपसंहरति-एवमादयो गमनविशेषा इति / 252] प्राणाख्ये 'वायो कर्म आत्मवायुसंयोगादिच्छाद्वेषप्रयत्नापेक्षाद जाग्रतः पुरुषस्य प्राणाख्ये वायौ कर्म इच्छाद्वेष पूर्वकप्रयत्नाद् भवतीति / कमिदं "ज्ञातमत आह-इच्छानुविधानदर्शनात् / रेचकपूरकादिप्रयोगेष्विच्छानुविधायिनी प्राणक्रियोपलभ्यते / नासारन्ध्रप्रविष्टे रजसि तन्निरासार्थ प्राणक्रिया द्वषादपि भवति, अतः प्रयत्न पविकेत्यवगम्यते / सुप्तस्य जीवनपूर्वकप्रयत्नापेक्षादात्मवायसंयोगात् / "प्राणक्रिया-सुप्तस्य प्राणक्रिया प्रयत्नकार्या प्राणक्रियात्वात् "जाग्रतः प्राणक्रियावत् / स चेच्छाद्वेषपूर्वको न भवति, सुप्तस्येच्छाद्वेषयोरभावात् / तस्माज्जीवनपूर्वक एव निश्चीयते, प्राणधारणस्य तत्पूर्वकत्वात् / [कु०] [252] कमिदमिति (कं. 308) तद्विषये छायाऽप्रत्यक्षत्वात्प्रश्न. / "रेचकपूरकत्वादिष्विति (कं. 308) भनेन विमतं प्र(प्रा)णकर्म इच्छाकार्यम्, जाग्रं (!) प्राणकर्मत्वात् , प्राणायामवेलायां योगिप्राणकर्मवदिति प्रयोगः सूचितः / इच्छानुविधानदर्शनाविति (कं. 308) अत्र द्वेषोऽप्युपलक्ष्यते अतस्तस्य कर्मकारणत्वमुदाहरणे दर्शयति नासारन्प्रेति (कं. 308) / 1 द्वेषपूर्वकप्रयत्ना-कं. 1, कं. 2 / 2 संयोगविभागयो-कं. 1, कं. 2 / 3 संयोगनिमित्तं-कं. 1, कं. 2 / 4 उत्तराणि-जे.१। 5 नोदनात् कर्मजात्-जे. 1, जे. 2 / 6 एव दण्डसंयुक्तं-जे. 1, जे. 2, जे.३। 7 विगते-जे.३। 8 वायुकर्म-जे.२ / 9 इच्छाद्वेषपूर्वकप्रयत्नापेक्षाद् भवतीति-कं. 1, कं.२। 10 पूर्वकाजे. 1 / 11 जात-कं. 1, कं. 2 / 12 पूर्विकेयमव-जे. 2 / 13 सुप्तस्य-कं. 1, कं. 2 / 14 जाग्रत्-जे. 1, जे. 2, जे. 3 / 15 पूरकत्त्वादिप्रयोगेष्विति कं.२।