________________ टिप्पणपञ्जिकाकुसुमोदगमादिटोकात्रयोपेतम प्रशस्तपादभाष्यम् ततः क्रमशः संयुक्तानामेवाभिसर्पणम् / ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयवघं द्रव्यमारभ्यते / तत्र च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते / [तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यदवर्यावनि कर्मोत्पद्यते] तत् स्यन्दनाख्यमिति / [251] संस्कारात् कर्म इष्वादिषवतम् / तथा चक्रादिष्ववयवानां पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संस्कारादनियतदिग्देशसंयोगविभागनिमित्तं कर्म तद् भ्रमणमिति / [ एवमादया गमनविशेषाः।] न्यायकन्दली - ततः क्रमशः संयुक्तानामेवाभिसर्पणम् / सेतुसमीपस्थोऽवयवः प्रथममभिसर्पति, 'तदन तत्समीपस्थस्ततस्तत्समीपस्थ इत्यनेन क्रमेण सर्वेऽवयवा अभिसर्पन्ति / ते चाभिसर्पन्तो न परस्परभिन्नदेशा अभिसर्पन्ति, "कि तु तथाभिसर्पन्ति यथा परस्परसंयुक्ता भवन्तीत्येतदवद्योतनार्थमुक्तं संयुक्तानामेवाभिसर्पणम् / 'न पुनरस्यायमर्थोऽप्रच्यतप्राच्यसंयोगानामेवाभिसर्पणमिति, संस्थानान्तरोपलम्भात् / ततः प्राक्तनसंयोगविनाशे पूर्वद्रव्यविनाशे प्रबन्धेनावस्थित रथयवैः संयुक्तीभावेनावस्थितैरवयवैर्दीर्घ द्रव्यमारभ्यते / तत्र च कारणगणपूर्वप्रक्रमेण द्रवत्वमुत्पद्यते / अवयवद्रवत्वेभ्यो दीर्घतरेऽवयविनि द्रवत्वमुत्पद्यते / तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यदवयविनि कर्मोत्पद्यते द्रवत्वात् तत्स्यन्दनम् / तत्र तस्मिन् द्रवत्वे उत्पन्ने सति कारणानामवयवानां प्रबन्धेन गमने 'पङक्तीभावेनाभिन्नदेशतया गमने यदवयविनि द्रवत्वात् कर्मोत्पद्यते तत्स्यन्दनाख्यम् / [251] संस्कारात् कर्मेष्वादिषुक्तम्, तथा चक्रादिषु / तथाशब्दो यथाशब्दमपेक्षते, यत्तदोनित्यसम्बन्धात् / यथा इष्वादिषु संस्कारात् कर्म कथितम्, तथा चक्रादिष्वपि भवतीत्यर्थः / एतदेव दर्शयति-अवयवानां पार्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तो [कु०] [251] 'दण्डविगमे वेति (कं. 307) यावत्संस्कारविनाशात्कर्मसंतानोपरम इत्यर्थः / 1 [] एतच्चिह्नान्तर्गतः पाठः 'दे' पुस्तके नास्ति / 2 [] एतच्चिह्नान्तर्गतः पाठो व्योमवत्यां नास्ति / 3 तदन तत्समीपस्थ इत्यनेन च क्रमेण -जे. 1 / 4 किन्तु यथापरस्परसंयुक्ता-जे. 2 / 5 न पुनरयमों -जे.१, न तु पुनरस्यायमों-जे. 3., न पुनरयमस्यार्थो-जे. 2 / 6 संसक्तीभावेना-जे. 1, जे. 3 / 7 दंडविगमेस्विति-कं.२।