________________ 660 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [250] स्रोतोभूतानामपां स्थलानिम्नाभिसर्पणं यत्तद्वत्वात् स्यन्दनम् / कथम ? समन्ताद्रोधःसंयोगेनावयविद्रवत्वं प्रतिबद्धम्, अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धम्, उत्तरोत्तरावयवद्रवत्वानि संयुक्तसंयोगः प्रतिबद्धानि / 'यदा तु मात्रया सेतुभेदः कृतो भवति, तदा समन्तात् प्रतिबद्धत्वादवयविद्रवत्वस्य कार्यारम्भो नास्ति / 'सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयव'द्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः / ___न्यायकन्दली [250] द्रवत्वस्य कारणत्वं कथयति-स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत्तद् द्रवत्वात् स्यन्दनम् / अपां 'यन्निम्नाभिसर्पणं तत्स्यन्दनं द्रवत्वादुपजायत इत्यर्थः / कथमिति प्रश्नः / समन्तादित्युत्तरम् / समन्तात सर्वतो 'रोधःसंयोगे कूलसंयोगे सति अवयविनो द्रवत्वं प्रतिबद्धं 'स्यन्दनं न करोति / अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धम्, यस्मिन्नवयवे साक्षाद्रोधःसंयोगोऽस्ति तदवयव गतं द्रवत्वं तेनैव रोधःसंयोगेन प्रातबद्धम्, उत्तरोत्तराणि त्ववयवद्रवत्वानि संयुक्तसंयोगः प्रतिबद्धानि, रोधःसंयुक्तेनावयवेन सह संयोगादवयवान्तरस्य द्रवत्वं प्रतिबद्धमिति / तत्संयोगादपरस्य प्रतिबद्धमित्येनेनैव न्यायेनोत्तरोत्तरद्रवत्वानि प्रतिबद्धानि / यदा तु मात्रया सेतुभेदः कृतो भवति, तदा समन्तात् प्रतिबद्धस्यावयविद्रवत्वस्य कार्यारम्भो नास्ति, दीर्घतरेण सेतुना समन्तात् प्रतिबद्धस्यावयविनो महापरिमाणस्यैकदेशकृतेनाल्पीयसा मार्गेण निर्गमाभावात् / सेतुसमीपस्थस्य त्ववयवद्रवत्वस्य वृत्तिलाभो भवति, अल्पस्यावयवस्य तेन मार्गेण निर्गतिसम्भवात् / तस्य वृत्तिलाभे चोत्तरेषामवयवद्रवत्वानामपि प्रतिबन्धकाभावाद्वत्तिलाभः स्वकार्यकर्तृत्वं स्यात् / [कु०] [250] अल्पीयसा मार्गणेति (कं. 306) यावदीर्घोऽवयवी नोत्पद्यते तावत्पूर्वस्यावयविनो निर्गमाभावः प्रत्यक्षसिद्ध इत्यर्थः / ननु संयुक्तानामेवाभिसर्पणं त_समवायिकारणनाशाभावात्पूर्वस्यावयविनो न नाश इत्यत आह तेन च न परस्परमिति / 1 यदा तु सेतुभेदः-व्यो. दे। 2 सृतोस्तु-दे। 3 द्रवत्वानामपि-दे। 4 यत्तु-जे 2 / 5 यत्र स्थलान्कं. 1, कं.२। 6 रोधः संयोगे सति-जे-२। 7 स्यन्दनं वा-कं. 1, कं 2 / 8 गत-कं. 1, कं. 2 / 9 एवं द्रवत्वानामपि-जे.१।