________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 659 प्रशस्तपादभाष्यम् तथा पादादिभिन्द्यमानायामभिहन्यमानायां 'वा पडाख्यायां पृथिव्यां यः संयोगो नोदनाभिघातयोरन्यतरापेक्ष उभयापेक्षो वा स संयुक्तसंयोगः, तामादपि ये प्रदेशा म नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते / [249] पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगा'भावे सति गुरुत्वाधदधोगमनं 'तत्पतनम् / यथा मुसल शरीरेष्वादिषूक्तम् / तत्राद्यं गुरुत्वात्, द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् / न्यायकन्दली संयोगः कारणम् / यत्राभिघातक द्रव्यं भूप्रदेशमभिहत्य किञ्चिदधो नीत्वोत्पतति, तत्र प्रदेशान्तरक्रियायामभयापेक्षः संयुक्तसंयोगो हेतुः / / [249) गुरुत्वस्य कर्मकारणत्वमाह / पृथिव्यदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभाषे गुरुत्वाद्यदधोगमनं तत्पतनम् / यथा मुसलशरीरादिषूक्तम् / गुरुत्वप्रतिबन्धकस्य हस्तसंयोगस्याभावे मुसलस्य यदधोगमनं तत्पतनं गुरुत्वाद्भवति / एवं गुरुत्वविधारकप्रयत्नाभावे. शरीरस्य पतनम्, क्षिप्तस्येषोरन्तराले धेगाभावात् पतनं गुरुस्वात् / तत्राद्यं कर्म गुरुत्वाद् द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् / तेषु मुसलादिष्वाधं कर्म गुरुत्वाद्भवति तेन कर्मणा संस्कारः क्रियते, तदनुत्तरोत्तरकर्माणि गुरुत्वसंस्काराभ्यां जायन्ते, द्वयोरपि प्रत्येकमन्यत्र सामर्थ्यावधारणात् / भप्रदेशं कंतुकादिकं किंचिदधोनत्वोत्पतति / तत्र कंतुकसंयुक्तस्य कर्मोत्पत्ती संयुक्तसंयोगेनोभयमपेक्षणीयमित्यर्थः / गुरुत्व(त्वा)भिधारकास्गुणान्वितव्य (?)व्याचष्टे मुरुत्वप्रतिबन्धकस्यति (कं. 305) / [249] ननु गुरुत्वेनैकेम पतने संभवति संस्कार: किमर्थम]पेक्ष्यत इत्यत आह योरपोति (कं. 305) / ramin 1 वा यः संयोगो-दे। 2 तस्मादपि पृथिव्यादिषु कर्म भवति / पे च प्रदेशा-कं. 1, कं.२ / / वेगामावे गुरुत्वा-दे। ४'तत्पतनम्' इति 'दे' पुस्तके नास्ति / 5 शरीरादिषु-कं. 1, कं.२। 6 प्रयत्नस्याभावे-जे.१, जे.२; विधारकस्य प्रयत्नभ्याभावे-जे. 2 / 7 तदनन्तरमत्तरकर्माणि-कं. 1, कं.२।