________________ ग्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् वेगापेक्षो यः संयोगविशेषो विभागहेतोरेकस्य कर्मणः कारणं सोऽभिघातः / तस्मादपि चतुर्षु महाभूतेषु कर्म भवति, 'यथा पाषाणादिषु 'निष्ठुरे वस्तुन्यभिपतितेषु / न्यायकन्दली पस्तदा गुरुत्वप्रयत्नवेगापेक्षः संयोगो नोदनम्, यदा जलेनाहन्यते तदा समस्तापेक्षः संयोगो नोदनमिति यथासम्भवमूह्यमिति / . वेगापेक्षो यः संयोग एकस्य विभागकृतः कर्मणः कारणं सोऽभिघातः, अभिघात्याभिघातकयोः परस्परविभागो यतः कर्मणो जायते तस्यैवैकस्य हेतुर्यः संयोगविशेषः सोऽभिघातः / तस्मादपि चतुर्ष महाभतेषु कर्म भवति / यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु / नोदनं परस्पराविभागहेतोरेकस्य कर्मणः कारणं न परस्परविभागहेतोः, एवमभिघातोऽपि परस्परविभागहेतोरेवैकस्य कर्मणः कारणं न परस्पराविभागहेतोरिदमुक्तमेकस्य कर्मणः कारणम्। संयुक्तसंयोगं व्याचष्टे-पादादिभिर्नु'द्यमानायामभिहन्यमानायां वा पङकाख्यायां पृथिव्यां यः संयोगो नोदनाभिघातयोरन्यतरापेक्ष-उभयापेक्षो वा संयुक्तसंयोगस्तस्मादपि ये प्रदेशा न नद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते / एकत्र पथिव्यां पादेन नद्यमानायामभिहन्यमानायां वा ये प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म दृश्यते / तत्र चलतां प्रदेशान्तराणां नुद्यमानाभिहन्य'मानभूप्रदेशः सह संयुक्तप्रदेश [कु.] : प्रश्नपूर्वकमवयवार्थ व्याचष्टे किमुक्तमिति (कं.३०४) लक्षणं विविनक्ति - अयं नोदनमिति (क. 304) अन्यतरापेक्षस्य संयुक्तसंयोगस्य कर्मकारणत्वेन प्रसिद्धत्वादुभयापेक्षमुदाहरति तत्राभिघातकमिति (?) अभिघातकहस्तादिकं - 1 परस्परविभागकृत-दे। 2 सोऽभिघातः यथा पाषाणादिषु-व्यो. (672) सोभिघातः / तस्मादपि भूतेषु-दे। . 3 'निष्ठरे वस्तुन्यभिपतितेषु' इति पदानि 'दे' पुस्तके न सन्ति सं.। 4 नूयमानायामिति-कं. 1, कं. 2 / ५मान:-जे.