________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [248] अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति / ___तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नान् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषो नोदनमविभागहेतोः / कर्मणः कारणम्, तस्माच्चतुर्ध्वपि महाभूतेषु कर्म भवति / यथा पङ्काख्यायां पृथिव्याम् / न्यायकन्दली [248) उपसंहरति-एवमिति / अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्वप्रत्ययं गमनमेव नोदनादिभ्यो भवति / 'आत्मना असाधारणेन सम्बन्धिनानधिष्ठितेषु बाह्येष्वप्रयत्नपूर्वक 'गमनाख्यमेव कर्म भवति, 'नोत्क्षेपणादिरूपमित्यर्थः / महाभूतेषु नोदनादिभ्यः कर्म भवतीत्युक्तम् / अथ' किमिदं नोदनमत आह- तत्र नोदनं गुरुत्वद्वत्वप्रयत्नवेगान समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः / कथमयं संयोगविशेषो नोदनमुच्यते तत्राह-नोदनमविभागहेतोः कर्मणः कारणमिति / नोद्यनोदकयोः परस्पर'विभाग न करोति यत्कर्म तस्य कारणं नोदनम् / / . किमुक्तं स्यात् ? अनेन संयोगेन सह नोदको नोद्यं नोदयति नान्यथा, तेनायं नोदनमुच्यते / नोदनं तु क्व कर्मकारणमत्राह-यथा पकाख्यायां पृथिव्यामिति / यदा पङ्कस्योपरि मन्दव्यवस्थापिता प्रस्तरगुटिका क्रमशः पङ्कन सममधो गच्छति, तदा गुरुत्वापेक्षः प्रस्तरपसंयोगो नोदनम् / यदा प्रयत्नेन दूरमुत्थाप्य प्रस्तरेणाभिहन्यते [कु०] [248] ननु गुणविशिष्टमात्मान्तरमेवेश्वरः, न चेश्वरानधिष्ठितेषु कर्मोत्पद्यते, तस्य सर्वनिमित्तकारणत्वात् , तत्कयमात्माधिष्ठितेषु कर्मोच्यत इत्यर्थः (इत्यत आह ? ) असाधारणेनेति (कं. 303) जीवेनेत्यर्थः / - ननु समस्तव्यस्तगुरुत्वाद्यपेक्षत्वमभिघाते विद्यते कथमिदं नोदनस्य लक्षणमित्यभिप्रायेण पृच्छति 'कथमिदं संयोग इति (कं. 304) अविभागहेतुकर्मकारणसंयोगो नोदनमिति लक्षणं परिशिष्टं तु रूपकथनमिति भावः / 1 हेतोरेकस्य-कं. 1, कं. 2 / 2 अन्येना-जे. 1 / 3 गमनाक्ष-जे. 2 / 4 नोत्क्षेपणापक्षेपणादिक-कं 1, कं. 2 / 5 अंथ किं- 1, कं. 2 / 6 कथं-कं 1, कं. 2 / 7 विभागान-जे. 2 / 8 कथमेवं संयोगविशेष-कं. 1 /