________________ 656 म्यायकन्दलीसंवलितप्रशस्तपादमाष्यम् प्रशस्तपादभाष्यम् बहनि कर्माणि क्रमशः कस्मात् ? संयोगबहुत्वात् / एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावादिति / एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययं च कर्मोक्तम् / न्यायकन्दली वर्तमानः स्थितिस्थापकः संस्कारो मण्डलोभतं धनुर्यथावस्थितं स्थापयति तदा तं संस्कारमपेक्षमाणाद्धनासंयोगाज्ज्यायां शरे च कर्मोत्पद्यते / तत् कर्म स्वकारणापेक्षं धनासंयोगापेक्षं ज्यायां संस्कारं वेगाख्यं करोति, 'तं संस्कारमपेक्षमाण इषुज्यासंयोगो नोदनम्, नोद्यस्येषोर्नोदकस्य गुणस्य सहगमनहेतुत्वात् / तस्मात् नोदनादिषावाद्यं कर्म भूतं नोदनापेक्षमिषौ संस्कारमारभते / तस्मात् संस्कारात् नोदनसहायात् तावत् 'कर्माणि भवन्ति यावदिषज्याविभागः / विभागानिवृत्ते नोदने कर्माणि उत्तरोत्तराणि संस्कारादेव वेगाख्याद् भवन्ति यावत्पतनम्, इषोरेतस्य च पातो गुरुत्वप्रतिबन्धकसंस्कारक्षयात् / अत्र चोदयति-बहनि कर्माणि क्रमशः कस्मादिति / ज्याविभक्तस्येषोरन्तराले क्रमशो बहूनि कर्माणि भवन्तीति कस्मात् कल्प्यते ? एकमेव कर्म कुतो न कल्पितमित्यभिप्रायः / समाधत्ते-संयोगबहुत्वादिति / उत्तरसंयोगान्तं कर्मेत्यवस्थितम् / क्षिप्तस्येषोरन्तराले बहवः संयोगा दृश्यन्ते / तेन बहनि कर्माणि भवन्तीत्याश्रीयते / एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावात् / नोदनाभिघातयोरन्यतरापेक्षं कर्म संस्कारमारभते न कर्ममात्रम्, वेगाभावात् / न चान्तराले नोदनं नाप्यभिघातः, तस्मादेक एव शरज्यासंयोगापेक्षेण शरकर्मणा कृतो विशिष्टः संस्कारो यावत्पतनमनुवर्तते / यथा यथा चास्य कार्यकरणाच्छक्तिः क्षीयते, तथा तथा कार्य मन्दतरतमादिभेदभिन्नमुपजायते / यथा तरोस्तरुणस्य फलं प्रकृष्यते'निःकृष्यते च जीर्णस्य / 1 धिष्ठितेषु तत्सम्बद्धेष चलत्प्रत्ययमसहत्प्रत्ययं च। 2 तं-कं. 1, कं.२। 3 वेगाक्षं-जे.१। 4 तं च-कं. 1, कं. 2 / 5 कर्म संस्कार-कं. 1, कं. 2, कम नोदनापेक्षमिषो संस्कार-जे. 3 / 6 कर्माणि च-जे. 2 / 7 उत्तराणि-कं. 1, कं. 2 / 8 तस्य च-जे. 1, जे. 2, जे. 3 / 9 अपकृष्यते-कं. 1, कं. 2 / /