________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 655 प्रशस्तपादभाष्यम् ज्ज्यायां शरे च कर्मोत्पद्यते / 'तत्स्वकारणापेक्षं ज्यायां संस्कारं करोति / तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते / तस्मात् संस्कारान्नोदनसहायात् तावत् कर्माणि भवन्ति यावदिषुज्याविभागः, विभागानिवृत्ते नोदने कर्माण्युत्तरोत्तराणीषुसंस्कारादेवापतनादिति / न्यायकन्दली 'यन्त्रमक्तेष्वपि गमनविधिः / कथम् ? यो बलवान् / कृतव्यायामः कृतायुधाभ्यासो वामेन करेण धनुविष्टभ्य गाढं गृहीत्वा दक्षिणेन शरं सन्धाय ज्यायां शरं संयोज्य सशरां ज्यां शरेण सह वर्तमानां ज्यां मुष्टिना गृहीत्वा इच्छां करोति सज्येष्वाकर्षयाम्येतद्धनुरिति / ज्येति धनुर्गुणस्याख्या, इषुरिति शरस्याभिधानम् / ज्या च इषुश्च ज्येष, सह 'ज्येषुभ्यां वर्तत इति सज्येष, धनुरेतदाकर्षयामीतीच्छाया आकारो शितः / तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्महस्तसंयोगादाकर्षणकर्म हस्ते यदेवोत्पद्यते, तदैव त'मेव प्रयत्नमपेक्षमाणाद्धस्त'ज्यासंयोगाज्ज्यायां कर्म शरे च कर्म हस्तशरसंयोगात् / प्रयत्न विशिष्टज्याहस्तसंयोगमपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्यां कर्मणी धनुष्कोटयोरित्येतत्सर्व युगपत, कारणयोगपद्यात् / एवमाकर्णादाकृष्ट धनषि नातः परमनेन हस्तेन गन्तव्यमिति यज्ज्ञानं तस्मात् / तदाकर्षणार्थस्येति धनुराकर्षणार्थस्य प्रयत्नस्य विनाश इति / ततः शरस्य गुणस्य च "भोक्षणेच्छा / तदनन्तरं प्रयत्नो मोक्षणार्थः, तमपेक्षमाणादात्माङ्गलिसंयोगादङ्गलिकर्म / तस्मा इङ्गलिविभागः, शरगुणाभ्याम् / ततो विभागाच्छरगुणाङ्गलिसंयोगविनाशस्तस्मिन् संयोगे विनष्टे प्रतिबन्धकाभावाद्यदा धनुषि 1 ततश्च-दे। 2 तन्नोदनापेक्षं-दे। 3 कर्माण्युत्तराणि तु-दे। 4 पाठोऽयं-कं. 1, कं. 2, पुस्तकयोनास्ति / 5 ताभ्यां-जे. 1, जे. 2, जे. 3 / 6 तं-कं. 1, कं.२। 7 हस्तज्याशरसंयोगात्-कं. 1, कं.२। 8 अर्थदृष्ट्या अत्र कर्म इत्येनेन पदेन भाव्यम् अन्यथा हस्तशरसंयोगात् इति व्यर्थं स्यात् / 9 विशिष्टं-जे. 2 / 10 मोक्षणेच्छा च कं-१, कं. 2 / 11 ज्याङ्गलिविभाग:-कं.-१, कं. 2 /