________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् (253] आकाशकालदि'गात्मनां सत्यपि द्रव्यभावे 'निष्क्रियत्वं सामान्यादिवदमूर्तत्वात् / मूर्तिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया, सा चाकाशादिषु नास्ति / तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति / [254] सविग्रहे मनसोन्द्रियान्तरसम्बन्धार्थ जाग्रतः कर्म आत्ममनःसंयोगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षात्, अन्वभिप्रायमिन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् / सुप्तस्य प्रबोधकाले जीवनपूर्वक प्रयत्नापेक्षात् / न्यायकन्दली [253] चतुर्षु महाभूतेष्विवाकाशादिषु कस्मात् क्रियोत्पत्तिर्न 'चिन्त्यत इत्यत आह आकाशकालदिगात्मनां सत्यपि द्रव्यभावे निष्क्रियत्वं सामान्यादिवदमूर्तत्वात् / क्रियावत्त्वं मूर्तत्वेन व्याप्त मूर्तत्वं चाकाशादिषु नास्ति, अतः क्रियावत्त्वमपि न विद्यत इत्यर्थः / एतदेव विवणोति-मत्तिरित्यादिना तद्वचक्तम् / [254] मनसि कर्मकारणमाह-सविग्रह इति / जाग्रतः पुरुषस्य सविग्रहे मनसि सशरीरे मनसीन्द्रियान्तरसम्बन्धार्थ कर्म आत्ममनःसंयोगादिच्छाद्वेषपूर्वक प्रयत्नापेक्षाद्भवति / इच्छाद्वेषपूर्वकः प्रयत्नो जाग्रतो मनःक्रियाहेतुरिति / कथमेतदवगतं तत्राह-अन्वभिप्रायमिन्द्रियान्तरेण विषयोपलब्धिदर्शनात् / जागरावस्थायामभिप्रायानतिक्रमेणेन्द्रियान्तरेण चक्षुरादिना विषयोपलब्धिदृश्यते / यदा रूपं जिघृक्षति पुरुषस्तदा रूपं पश्यति, यदा रसं जिघृक्षते तदा रसं रसयति / न चान्तःकरणसम्बन्धमन्तरेण 'बाह्ये[कु०] [253] चतुर्षु महाभूतेष्विति (कं 308) / [254] द्रव्यत्वा(त्व)स्य क्रियावत्वप्रयोजकत्वं मन्यमानस्य प्रश्नः / मूर्तत्वस्योपाधित्वाद् द्रव्यत्वमप्रयोजकमित्यभिप्रायवतः परिहार इत्याह अभिप्रायानतिक्रमणेति (कं. 309) इच्छानतिक्रमणेत्यर्थः / 1 दिगात्मान:-व्यो. (673) दे। 2 निष्क्रियाः व्यो. (673) दे। 3 चिन्तितत्याह-कं. 1, कं. 2, न चिन्त्यत इत्याह-जे.२। 4 दिगात्मनामिति-कं. 1, कं.२। 5 मनसि-कं. 1, कं.२। 6 जिघृक्षते-कं. 1, कं. 2 / 7 बाह्येन्द्रियस्य-कं.१, कं. 2 /