________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 653 प्रशस्तपादभाष्यम् तदनन्तरं 'तिर्यगज़ दरमासन्नं वा क्षिपामीतीच्छा सञ्जायते / तदनन्तरं तदनुरूपः प्रयत्नस्तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः / तस्मात् तोमरे कर्मोत्पन्नं नोदनापेक्ष तस्मिन् संस्कारमारभते / ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद्धस्ततोमरविभाग इति / ततो विभागानोदने निवृत्ते संस्कारावं तिर्यग दूरमासन्नं वा प्रयत्नानुरूपाणि कर्माणि भवन्त्यापतनादिति / तथा यन्त्र मुक्तेष्वपि गमनविधिः / कथम् ? यो बलवान् कृतव्यायामो वामेन करेण धनुविष्टभ्य दक्षिणेन शरं सन्धाय सशरां ज्यां मुष्टिना 'गृहीत्वा आकर्षणेच्छां न्यायकन्दली माणाद्धस्तमुसलसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति / अस्मिन् पक्षे हस्तमुसलोत्पतनकर्मणोस्तिवमेव योगपद्यम् / ___ पाणिमुक्तेषु गमनविधिः कथम् ? पाणिमुक्तेषु द्रव्येषु गमनविधिः गमनप्रकार: कथमुत्पद्यत इति प्रश्ने कृते सत्याह-'यदा तोमरं गृहीत्वात्क्षेप्तुमिच्छोत्पद्यते 'हस्तेन तोमरमुत्क्षिपामि इति' / तदनन्तरं प्रयत्नमपेक्षमाणाद्यथोक्तसंयोगद्वयादान्यहस्तसंयोगहस्ततोमरसंयोगाच्च हस्ततोमरयोर्युगपदाकर्षणकर्मणी भवतः / युगपदाकर्षणेति, अना'कृष्योत्क्षेप्तुमशक्यत्वात् / प्रसारिते हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते इति तयोहस्ततोमरयोराकर्षण प्रयोजनः प्रयत्नो निवर्तते, तद्विरोधिप्रसारणप्रयत्नोत्पादादित्यर्थः / संस्कारभेदकल्पने कल्पनागौरवमित्यर्थः यथा तरोस्तरुणस्येति (कं. 303) पूर्वपूर्वकर्मप्रध्वंससहाय एक एव संस्कारो मंद-तरतमात्मान्तरमेवेश्वरादि (?) भेदाभ(भे)दभिन्नं कर्म करोतीत्यमुमथं दर्शय (यि) तुमिदमुक्तम् / न तु दृष्टान्ततया काजो (यों)त्पत्त्या तरोर्भेदात् / 1 ऊर्ध्वमधो दूरमासन्नं वा (व्यो. 666) / 2 मुक्तेष-कं 1, कं. 2 व्यो. (666) / 3 गृहीत्वेच्छां-व्यो. (666) / 4 यदा तोमरमिति-कं. 1. कं.२। 5 अनाकृष्य क्षेप्तुम-जे. 2 / 6 मशक्यत्वात्प्रयलो-क. 1, कं 2 / 7 प्रयोजन-कं. 1, कं. 2 /