________________ 652 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् अथवा प्राक्तन एव पटुः संस्कारोऽभिघातादविनश्यन्नवस्थित इत्यतः संस्कारवति पुनः संस्कारारम्भो नास्त्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म, तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणान्मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति / पाणिमुक्तेषु गमनविधिः, कथम् ? यदा तोमरं हस्तेन 'गृहीत्वोत्क्षेप्तुमिच्छोत्पद्यते, हस्तेन तोमरमुत्क्षिपामि इति / तदनन्तरं प्रयत्नः, तमपेक्षमाणाद्यथोक्तात् संयोगद्वयात् तोमरहस्तयोर्युगपदाकर्षणकर्मणी भवतः / प्रसारिते च हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते। न्यायकन्दली प्राक्तनोऽपक्षेपणसंस्कारो मुसलगतः 'सोऽप्यभिघाताद्विनष्टः तदभावे कथं मुसले प्रत्ययमुत्पतनकर्मोत्पतनसंस्कारमारभते ? 'अपेक्षाकारणाभावादत आहयद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलखलसंयोगः पटुकर्मोत्पादकः संस्कारजनककर्मोत्पादकः / कुतः ? संयोगविशेषभावात संयोगविशेषत्वात् / किमतो यद्येवम् ? तत्राह-तस्य कर्मणः संस्कारारम्भे कर्तव्ये साचिव्यसमर्थो भवति, साहाय्ये समर्थो भवति / अस्मिन् पक्षे हस्तमुसलयोरुत्पतनकर्मणी क्रमेण भवतः / आशुभावाच्च योगपद्यग्रहणम् / प्रकारान्तरमाह-अथवा प्राक्तन एव पटुः संस्कारोऽभिधातादविनश्यन्नवस्थित इति विशिष्ट कारण जन्यत्वादतिप्रबलः संस्कारः स्पर्शवद्रव्यसंयोगेनापि न विनश्यति / अतः संस्कारवति संस्कारान्तरारम्भो नास्ति, 'अतः प्राक्तनापक्षेपणसंस्कारो न विनष्टः, अतः प्राक्तनसंस्कारवति मुसले संस्कारान्तरारम्भो नास्तीति प्रतीयते / यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म, तस्मिन्नेव काले तमेव संस्कारमपेक्ष [कु०] तेनेति (कं. 303) एककपरमाणुपरिमितेष्वाकाशादे(दि)ष्टेष्वन्त्यानां प्रत्येकमेव स्वकारणकर्मविनाशकत्वेनेत्यर्थः। नोदनाभिघातयोरिति (कं. 303) पूर्वपूर्वकर्मोत्पादनेन संस्कारस्यैकस्यैव कल्पनया गतितारतम्यसंभवा 1 गहीत्वेच्छां करोति-व्यो. (665) 2 पाठोऽयं: कं. 1, कं. 2 पुस्तकयो स्ति। 3 सोऽभि-जे 1, जे. 2, जे. 3 / 4 अपेक्ष्य-जे. 1, जे. 2 / 5 कारणजत्वा-क-१, कं. 2 / 6 यतः-कं. 1, कं. 2, जे:२। .