________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 651 प्रशस्तपादभाष्यम् पणकर्मणी भवतः, ततोऽन्त्येन मसलकर्मणोलखलमसलयोरभिघाताख्यः संयोगः क्रियते, स संयोगो मुसल'गतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति / तत्कर्माभिघातापेक्षं मुसले संस्कारमारभते / तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति / यद्यपि प्राक्तनः संस्कारो विनष्टस्तथापि मुसलोलुखलयोः संयोगः [पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति / न्यायकन्दली उत्क्षेपणकर्मोत्पद्यते, तस्मिन्नेव काले तमेव 'प्रयत्नमुभयार्थमुत्पन्नमपेक्षमाणाद्धस्तमुसलसंयोगादसमवायिकारणान्मुसलेऽपि कर्म भवति, कारणयोगपद्यात् / ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्तते उत्क्षेपणेच्छा निवर्तते / पुनरप्यपक्षेपणेच्छोत्पद्यते हस्तेन मुसलस्यापक्षेपणेच्छोपजायत इत्यर्थः / तदनन्तरं प्रयत्नः सोऽपि जायमान उत्क्षेपणप्रयत्नवद् विशिष्ट एव जायते / 'तं प्रयत्नमपेक्षमाणाद्यथोक्तात् संयोगद्वयादात्महस्तसंयोगाद्धस्तमुसलसंयोगाद्धस्तमुसलयोर्युगपदक्षेपणकर्मणी भवतः / ततोऽन्त्येन मुसलकर्मणोलखलमसलयोरभिघाताख्यः संयोगः क्रियते / अपक्षिप्तस्य मुसलस्यान्येन कर्मणा उलखलमुसलसमवेतो मुसलस्योत्पतनहेतुः संयोगः क्रियत इत्यर्थः / स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययमप्रयत्नपूर्वकं मुसले. उत्पतनकर्म करोति / उत्पतनकर्मोत्पत्तौ अभिघातोऽसमवायिकारणं मुसलगतो वेगो निमित्तकारणम्, मुसलं समवायिकारणम् / तत्कर्माभिघातापेक्षं मुसले संस्कारमारभते उत्पतनकर्म स्वकारणाभिघाताख्यं संयोगमपेक्षमाणं मुसले वेगमारभते / तं संस्कारमपेक्ष्य हस्तमसलमंयोगोऽसमवायिकारणभूतोऽप्रत्ययमप्रयत्नपूर्वकं हस्तेऽप्युत्पतनकर्म करोति / योऽसौ [कु०] कृतायुधाभ्यास इति (कं. 302) = तारतम्यानुविधानादभ्यासस्य कारणत्वम् / वामेनेति (कं. 302) उपलक्षणम् / सध्यसाचिनि विपर्ययदर्शनात् / कारणजौ (यौ)गपत्यादिति (कं. 302) प्रयत्नवदात्मसंयोगस्य-प्रयत्नवदात्मसंयुक्तसंयोगस्य च युगपद्भावादित्यर्थः / 2 प्रयत्नमपे-जे.१। 3 तं च-कं. 1, कं.२। 4 करोति बेगो निमित्तकारणं-कं. 1, , 1 मसलवेग-दे। कं. 2