________________ 650 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते कर्म भवति, हस्तवत् सर्वशरीरावयवेषु पादादिषु शरीरे चेति / तत्सम्बद्धेष्वपि कथम् ? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति 'उत्क्षिपामि हस्तेन मुसलम्' इति, तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्महस्तसंयोगाद्यस्मिन्नेव काले . हस्ते उत्क्षेपणकर्मोत्पद्यते, तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद्धस्तमुसलसंयोगान्मुसलेऽपि कर्मेति / ततो दूरमुत्क्षिप्ते मसले तदर्थेच्छा निवर्तते / 'पुनरप्यपक्षेपणेच्छोत्पद्यते / तदनन्तरं प्रयत्नस्तमपेक्षमाणाद्यथोक्तात् 'संयोगद्वयाद्धस्तमुसलयोर्युगपदपक्षे न्यायकन्दली माणादात्महस्तसंयोगादसमवायिकारणास्ते कर्म भवति / सत्यपि प्रयत्ने गरुत्वरहितस्य उत्क्षेपणापक्षेपणयोरशक्यकरणत्वाद् गुरुत्वस्यापि कारणत्वम् / हस्तवत्सर्वशरीरावयवेषु पादादिषु शरीरे चेति / पादे कर्मोत्पत्तौ पादवत्यात्मप्रदेशे प्रयत्नो निमित्तकारणम्, पादात्मसंयोगोऽसमवायिकारणम् / एवं सर्वत्र शरीरावयवक्रियोत्पत्ती द्रष्टव्यम् / शरीरक्रियोत्पत्तावपि शरीरात्मसंयोगोऽसमवायिकारणम्, शरीरवदात्म'प्रदेशे प्रयत्नो निमित्तकारणम् / तत्सम्बद्धेष्वपि, शरीरावयवसम्बद्धेष्वपि कथं कर्मोत्पत्तिरिति प्रश्नार्थः / यदा . हस्तेन मुसलं गृहीत्वेच्छां करोति 'उत्क्षिपामि हस्तेन मुसलम्' इति, तदनन्तरं तस्या इच्छाया अनन्तरम्, प्रयत्नः हस्तेन मुसलमूर्ध्वमुत्क्षिपामीति हस्तमुसलयोर्युगपदुत्क्षेपणेच्छातः प्रयत्नो जायमानस्तयोर्युगपदुत्क्षेपणसमर्थो विशिष्ट एव जायते / तं प्रयत्न 'विशिष्टं निमित्तमपपेक्षमाणादात्महस्तसंयोगात् समवायिकारणाद्यस्मिन्नेव काले हस्ते [कु.] ननक्षेपणे कर्तव्ये आकर्षणं विरुद्धमित्यत आह 'अनाकृष्टस्येति (कं. 301) अन्वयव्यतिरेकाभ्यां क्षेपणस्याकषर्ण कारणमित्यवगतमित्यर्थः / 1 पून:-दे। 2 संयोगा-कं. 1, कं.२। 3 शरीरावयवेष-जे. 1 / 4 प्रदेशो-जे. 3 / शरीरसम्बद्धेष-कं. 1, कं. 2: तत्सम्बद्धेष्वपि-जे. 3 / सम्बद्धेष शरीरावयवसम्बद्धष्वपि-जे. 2 / मिच्छतः-जे. 1 / 7 विशिष्टमवे-जे. 1, जे. 2 / 8 अनाकृष्येति वि. पुस्तके / 5 तत्सम्बद्धेष 6 दुन्क्षेप्तु