________________ टिप्पणपञ्जिकाकूसुमोदगमादिटीकात्रयोपेतम् 649 प्रशस्तपाइभाष्यम् अथवा अस्त्वपरं सामान्यं गमनत्वम् अनियतदिग्देशसंयोगविभागकारणेष भ्रमणादिष्वेव वर्तते, गमन'शब्दश्चोत्क्षेपणादिषु भाक्तो द्रष्टव्यः, स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति / [247] सत्प्रत्ययकर्मविधिः / कथम् ? चिकीषितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छत्यपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते / तं प्रयत्न न्यायकन्दली अथवा अस्त्वपरं सामान्यं गमनत्वम्, तत्केषु वर्तते तत्राह-'अनियतदिग्देशे कुतस्ता क्षेपणादिषु गमनप्रत्ययः ? अत आह-गमनशब्दस्त्विति / गमनशब्दग्रहणस्योपलक्षणार्थत्वाद गमन'प्रत्ययोऽप्युत्क्षेपणादिषु भाक्तो व्याख्येयः / उपचारस्य बोजमाह-स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति / गमनं स्वाश्रयस्य संयोगविभागौ करोति, उत्क्षेपणादयोऽपि कुर्वन्ति, एतावता साधये॒णोत्क्षेपणादिषु गमनव्यवहारः / अनेन साधयेण गमने कस्मादुत्क्षेपणादिव्यवहारो न भवति ? पङ्गल्यपाटलत्वादिसाधयेण वह्नावपि माणवकव्यवहारः कस्मान भवति ? अथोच्यते न कारणसद्भावे सत्युपचारकल्पना, किन्तु स्थिते व्यवहारे कारणकल्पनेति / एवं चेदत्रापि स एवं परिहारः / [ 247] सत्प्रत्ययकर्मविधिः-प्रयत्नपूर्वकः कर्मप्रकारः कथ्यत इत्यर्थः / कथमिति-पृष्टः सन्नाह-चिकीषितेष्विति / यज्ञादिषु कर्तुमभिप्रेतेषु सत्सु यदा पुरुषो हस्तमुत्क्षेप्तुमवक्षेप्तुं वेच्छति, तदा हस्तवत्यात्मप्रदेशे प्रयत्नो जायते / तं प्रयत्नं निमित्तकारणभतमपेक्ष [कु०] [247] एतत्प्रसिद्धत्वादनभिधाय सिद्धान्तभाष्यमुपादत्ते कर्मप्रकार इति (कं. 298) कर्मोत्पतिप्रकार: कथ्यत इत्यर्थः / कर्मपटतरत्वं (कर्मोत्पादक?) कीदश इत्यत आह-संस्कारजनककर्मोत्पादक इति (कं. 300) अभिधातस्य हस्ते भावादेवमुच्यते / अस्मिन्पक्ष इति (कं. 300) उभयोरपि प्राक्तनसंस्कारसाम्यादेवमुच्यते / 1 शब्दस्तु-दे। 2 तदा तदा-दे। 3 अस्त्वपरं-जे. 2 / 4 अनियतमि-कं. 1, कं.२। 5 अत आहगमनशब्दब्रहणस्योपलक्षणत्वाद्-जे. 1, अत आह गमनशब्दस्त्विति / शब्दग्रहणस्योपलक्षणत्वात्-जे. 2 / 6 प्रत्यय उत्क्षेप-कं. 1, कं. 2 / 7 द्रष्टव्यः-कं. 1 कं. 2 / 8 पूर्वक-कं. 1, कं 2 / 9 मुत्क्षेप्तुमि-कं. 1, कं. 2 /