________________ 648 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् न, कर्मत्वपर्यायत्वात् / आत्मत्वपुरुषत्ववत्कर्मत्वपर्याय एव गमनत्वमिति / अथ विशेषसंज्ञया किमर्थ गमनग्रहणं कृतमिति ? न, भ्रमणाद्यवरोधार्थत्वात् / उत्क्षेपणादिशब्दरनवरुद्धानां भ्रमणपतनस्पन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति / अन्यथा हि यान्येव चत्वारि विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरनिति / . न्यायकन्दली कर्मप्रत्ययश्चलनात्मकताप्रत्ययस्तथा तेषु गमनप्रत्ययः, ऊर्ध्व गच्छत्यधो गच्छति मूलप्रदेशं गच्छत्यप्रदेशं गच्छतीति प्रत्ययो भवतीति। तेन गमनत्वं कर्मत्वपर्याय इति गम्यते, समस्तभेदव्यापकत्वात् / 'यत्तत्क्षेपणादिवद् गमनमपि पृथगभिहितं विशेषसंज्ञया, तस्माद् गमनत्वमपरं सामान्यं स्यात, अवान्तरभेदनिरूपणावसरे तस्य संकीर्तनात् / एवमुपपादिते परेण संशये सति 'आचार्यः प्राह-नेति / न कर्तव्यः संशयः कुतः ? गमनत्वस्य कमंत्वपर्यायत्वात् / एतद्विवृणोति-आत्मत्वपुरुषत्ववत्कर्मत्वपर्याय एव गमनत्वमिति / यथात्मत्वस्य पर्यायः पुरुषत्वं समस्तभेदव्यापकत्वात् तथा गमनत्वं कर्मत्वस्य पर्यायः / अथ किमर्थ विशेषसंज्ञया, पृथग् गमनग्रहणं कृतम् ? इति चोदयति-अर्थति। ___ उत्तरमाह-नेति / उत्क्षेपणादिशब्दरनवरुद्धा न संगृहीता भ्रमणादयः / यदि गमनग्रहणं न क्रियेत, तदा तेषां कर्मत्वेन संग्रहो न स्यात् / किन्तु विशेषसंज्ञयोद्दिष्टा. नामुत्क्षेपणादीनामेव परं कर्मत्वसंज्ञाविषयत्वं भवेत् / भ्रमणादयोऽपि च लोके कर्मत्वेन प्रसिद्धाः, अतस्तेषां परिग्रहार्थ पृथग् गमनग्रहणं कृतमिति ग्रन्थार्थः / / [कु.] च संशयहेतुत्वं प्रागेव निराकृतमिति / आचार्य प्राह इति (क. 297) एकादशमतमिति शेषः / अस्य च दुष्टत्वादेकादशिमतत्वं दोषश्च भ्रमणं कर्मत्वापरसामान्यवत्कर्मत्वात् , उत्क्षेपणवदित्यनुमानविरोधः / 1 चलनात्मता-जे. 1, जे. 2, जे.३। 2 यतस्तु-कं. 1, कं. 2 3 मुनि:-क. 1, क.२ 4 तथा यदि गमनत्वं समस्तभेद-जे. 2 / 5 कर्मत्वेन लोकप्रसिद्धा:-कं. 1, कं. 2 // 6 परिग्रहणार्थ-जे.३। 7 मनिः प्राह इति वि. पुस्तके।