________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 647 प्रशस्तपादभाष्यम् ___अत्र ब्रूमः / न, अवयवावयविनोदि'विशिष्टसंयोगविभागानां भेदाद् / यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिकप्रदेशैः संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति, 'यस्त्व'वयविन ऊर्ध्व प्रदेशाद् विभागमधःसंयोगं चावेक्षते तस्य पतनप्रत्ययो भवति / यः पुनर्नालिकान्त'र्देशे संयोग बहिर्देशे च विभागं पश्यति, तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदानिष्क्रमणादीनां प्रत्ययभेद इति / भवतूत्क्षेपणादीनां जातिभेदात् प्रत्ययभेदः, निष्क्रमणादीनां तु कार्यभेदादिति / .[246] अथ गमनत्वं किं कर्मत्वपर्यायः ? आहोस्विदपरं सामान्यमिति ? कुतस्ते संरायः ? समस्तेषत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते / यतस्तूत्क्षेपणादिवद्विशेषसंज्ञयाभिहितं तस्मादपरं सामान्यं स्यारिति / : न्यायकन्दली तावदेकमेव कर्म भवति, तत्र कथं युगपदनेककर्भप्रत्यय इत्याह-कथमिति / तद्विवृणोति-अथ मतमित्यादिना। अत्र ब्रूम इति सिद्धान्तोपक्रमः। यत् त्वयोक्तं तन्न, अवयवानामवयविनश्च 'दिशाविशिष्टानां संयोगविभागानां भेदात् / अस्य सुगम विवरणम् / अवयवकर्मसु पार्श्वतः संयोगविभागकारणेषु भ्रमणप्रत्ययः, अवयविक्रियायां कार्यभेदात्. पतनप्रवेशनप्रत्ययावित्यर्थः / " [246] भवतूत्क्षेपणादीनां जातिभेदात् प्रत्यय भेदः / अथ गमनत्वं किं कर्मत्वपर्यायः, आहोस्विदपरं सामान्यमिति / सिद्धान्ती पृच्छति-कृतस्ते संशयः ? संशयोऽत्रानुपपन्न इत्यभिप्रायः। परः संशयमुपपादयति-समस्तेविति / उत्क्षेपणादिषु सर्वेषु यथा कु०] संशयो [ऽत्रानुपपन्न इति (कं. 296) समानधर्माभावात्पथगभिधानस्य च जातिभेदनिश्चयहेतोर्भावादिति भावः / समस्तभेद[व्यापकत्वादिति (कं. २९६)-अयं भावः- एकस्यां व्यक्ती सहनिरूप्यमाणत्वात्कि नमनत्वकर्मत्वे हस्तत्व-करत्ववत्परस्परं भिद्यते, कि वा द्रव्यत्व-पृथिवीत्वादिवत् भिद्यते, [इति अत्र] विशेषाभिधान च निर्णायकम् / .. [246] गमनत्वं कर्मत्वान्न भिद्यते / उत्क्षेपणादिचतुष्टयव्यापकत्वात्कर्मत्ववदिति सत्प्रतिपक्षत्वात्सत्प्रतिपक्षस्य 1 दिग्देश-व्यो. (659) / 2 योहि-कं 1, कं. 2 / 3 वयविन्यूर्ध्व-व्यो. (659) / कं. 2 / 5 च प्रश्यति-दे। 6-7 देशेन-दे। 8 दिग्देश-कं. 1, कं 2 / 4 प्रदेशः-कं. 1,