________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम 643 .. प्रशस्तपादभाष्यम् तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते तत्प्रसारणम् / यदनियतदिक्'प्रदेशसंयोगविभागकारणं तद्गमनमिति / एतत्पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्ययमसत्प्रत्ययं च / यदन्यत्तदप्रत्ययमेतेष्वन्येषु च, तद्गमनमेव / कर्मणां जाति पञ्चत्वमयुक्तम् गमनाविशेषात् / ___ न्यायकन्दली 'सत्प्रत्ययमिति / प्रयत्नपूर्वकमप्रयत्नपूर्वकं च भवतीत्यर्थः / यदन्यदिति / एतेषु शरीरावयवेष मसलादिष्वन्येष वा द्रव्येषु यत् तदप्रत्ययजं कर्म जायते सत्प्रत्ययादन्यत् तद्गमनमेव / चोदयति-कर्मणामिति उत्क्षेपणादीनां कर्मणां जाति पञ्चत्वमयुक्तम्, गमनात् सर्वेषामविशेषादभेदादिति चोदनार्थः / [टि.] // इति श्रीमल"धारिशिष्य पं. श्रीनरचन्द्रकृतिकादलीटीप्पनके कर्मपदार्थः समाप्सः / / [कु.] पूर्वोक्तमेव द्रष्टव्यम् / ननु प्रसारणेनाय (य) संयोगः क्रियते पूर्व (4) तत्रागसम्बन्धाभावात्कथं तद्विपर्ययेणेति भाष्यमित्यत आह अवयवानामिति (कं. 292) भवतीत्यर्थः / इति यथासंभवेनेति शेषः / 1 सम्प्रसारणं-दे। 2 दिग्देश-दे। 3 तदप्रत्ययमेष-कं. 1, के.२। 4 तद्गमनमित्ति-कं. १,कं.२। 5 पञ्चकस्व क. 1, कं. 2 / 6, 7 सर्वेष्वपि ताडपत्रीयेषु पुस्तकेषु प्रतीकरूपेण सम्पूर्णभाष्यस्य पाठो दत्तः सं / 8 एतेषु च मुसलादिष्वन्येषु वा-जै. 1 जे. 3 / 9 प्रत्ययज-कं. 1, क. 2; जे. 2, जे. 3 / 10 पञ्चक-कं. 1, कं. 2 / 11 श्रीमल कर्गपदार्थः समाप्त:- अ, ब /