________________ 642 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [243] तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्व भाग्भिः प्रदेशः संयोगकारणमधो भाग्भिश्च विभागकारणं कर्मोत्पद्यते 'गुरुत्वप्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम् / तद्विपरीतसंयोगविभागकारणं कर्मा वक्षेपणम् / ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैविभागः संयोगश्च, मूलप्रदेशैर्येन कर्मणावयवी कुटिलः सजायते तदाकुञ्चनम् / न्यायकन्दली कर्म कर्मकारणं न भवति, कर्मत्वात् अन्त्यकर्मवत् / अथवा विवादाध्यासितं कर्म कर्मसाध्यं न भवति, कर्मत्वादाद्यकर्मवत् / 'द्रव्यानारम्भकत्वम् / उत्तरसंयोगानिवृत्ते कर्मणि द्रव्यस्योत्पादात् / प्रतिनियतजातियोगित्वम् / उत्क्षेपणादिषु प्रत्येकमुत्क्षेपणत्वादियोग इत्यर्थः / एतत्सर्वपञ्चानामपि साधर्म्यम् / दिग्विशिष्टकार्यकर्तृत्वमेव कथयति-तत्रेति / [243] शरीरावयवेषु हस्तादिषु तत्सम्बद्धेषु मुसलादिषु च यदूर्ध्वभाग्भिः प्रदेशः संयोगकारणम्, अधोभाग्भिश्च विभागकारणं गुरुत्वसंयोगप्रयत्नेभ्यो जायते तदुत्क्षेपणम्। तद्विपरीतसंयोगविभागकारणं कर्मावक्षेपणम् / अधोदेशसंयोग्रकारणमूर्ध्वदेशविभागकारणं "कर्मावक्षेपणमित्यर्थः / "ऋजुन इति / तद्देशैरग्रावयवसम्बद्धराकाशादिदेशः सञ्जायते इति, येन कर्मणेति सम्बन्धः / "अग्रावयवानां मूलप्रदेशविभागादुत्तरदेशसंयोगोत्पत्तौ सत्यामित्यर्थः / [टि०] सति मनःकर्मत्वाद् इति :- अत्र योगिमनोव्यवच्छेदार्थम् 'अयोगिमनःकर्मत्वाद्' इति कर्तव्यम् / [कु०] [243] गुरुत्वसंयोगप्रयत्नेभ्य इति (क. 291) तूलमुषलादिषु गुरुत्वतारतम्य-उत्क्षेपणतारतम्यदर्शनाद् गुरुत्वमपि कारणम् / इह च समुदितानामेव कारणत्वम्, अन्यतमापाये [उ] क्षेपणानुत्पत्तेः / अपक्षेपणेऽपि कारणं 1 भाग्भिः संयोगकारणम्-व्यो. दे। 2 भाग्भिश्च प्रदेश:-कं. 1, कं. 2 / 3 गुरुत्वद्रवत्व-व्यो. (654) / 4 पक्षेपणं-कं.१ कं.२। 5 द्रव्येति-कं. 1, कं. 2 // 6 त्पादनम्-कं. 1, कं.२।७ नियतेति-कं. 1, कं. 2 / 8 सर्वमपि पञ्चानां-कं. 1, 2 / 9 तद्विपरीतेति-कं. 1, कं. 2 / 10 कर्माप-कं.१, कं. 2. / / 11,12 सर्वेष्वपि ताडपत्रीयपुस्तकेषु प्रतीकरूपेण सम्पूर्णभाष्यस्य पाठो दत्तः सं.।