________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 641 प्रशस्तपादभाष्यम् जातीयानारम्भकत्वं द्रव्यानारम्भकत्वं च प्रतिनियतजातियोगित्वम् / दिग्विशिष्टकार्यारम्भकत्वं च विशेषः / न्यायकन्दली तयोः परस्परप्रतिबन्धादिग्विशेषसंयोगविभागानुत्पत्तौ संयोगविभागयोरनपेक्षं कारणं कर्मेति लक्षणहानिः स्यात् / अथाविरुद्धकर्मद्वयसमावेशः, तदैकस्मादेव तद्देशद्रव्यसंयोगविभागयोरुपपत्तेः द्वितीयकल्पनावैयर्थ्यम् / एवमेकं कर्म नानेकत्र वर्तते, एकस्य चलने तस्मात् कर्मणोऽन्यस्य चलनानुपलम्भात् / क्षणिकत्वमाशतरविनाशित्वम् / मूर्तद्रव्यवृत्तित्वम् अवच्छिन्नपरिमाणद्रव्यवृत्तित्वम् / अगुणवत्त्वं 'गुणरहितत्वम् / गुरुत्वद्रवत्वप्रयत्न संयोगजत्वम् / 'स्वकार्यसंयोगविरोधित्वम् / 'स्वकार्येण संयोगेन विनाश्यत्व न विभागविनाश्यत्वम्, उत्तरसंयोगाभावप्रसङ्गात् / . संयोगविभागनिरपेक्ष कारणम् / यथा वेगारम्भे नोदनाभिघातविशेषापेक्षत्वं नवं संयोगविभागारम्भे 'नोदनाद्यपेक्षत्वमित्यर्थः। असमवायिकारणत्वम् यथा गुणानां निमित्तकारणत्वमपि नैवं कर्मणाम्, किं त्वसमवायिकारणत्वमेवेत्यर्थः / 'स्वपराश्रयसमवेतकार्यारम्भकत्वम् / स्वाश्रये पराश्रये च व्यासज्य समवेतं यत्कार्य संयोगविभागलक्षणं तदारम्भकत्वम् / 'समानजातीयानारम्भकत्वम् / कर्मणः कर्मान्तरारम्भे गच्छतो गतिवि'रामो न स्यात् / इच्छाप्रयत्नादिविरामादन्ते गतिविराम इति चेत् ? तींच्छाप्रयत्नादिकमेवोत्तरोत्तरकर्मणामपि कारणम् न तु कर्म। विवादाध्यासितं [टि.] नवम्, पूर्व संयोगनाशस्य उत्तरसंयोगप्रतिबन्धकनिवर्तनेनैव चरितार्थत्वात् / "प्रलयानन्तरावस्थाभावि कर्मव्यतिरिक्तत्वे [कु०] इच्छाप्रयत्नादोति (कं. 291) आदिशब्देन वेगो गृह्यते / तीच्छादेरेवान्वयव्यतिरेकानुविधानादिभेद इत्यर्थः / ननु तन्तुक्रियानन्तर पटो जायते तत्कथं द्रव्यानारम्भकत्वमित्यत आह उत्तरसंयोगादिति (कं. 291) दिग्विशिष्टेति (कं. 291) दिग्विशेषविशिष्टकार्यारभकत्वमिति व्याख्येयम् / 1 गुणवत्व-कं. 1, कं. 2 2 संयोगजन्यत्वम्-जे. 3; गुरुत्वद्रवत्वसंयोगजन्यत्वम्-जे. 2 3 स्वकार्येति-कं. 1, पं. 2 / 4 स्वकार्यसंयोगविनाश्यत्वम-जे.१। 5 विभागेति-कं. 1, कं.२ 6 तदपेक्षत्वम्-जे. 1, जे. 2, जे. 3 / 7 स्वपराश्रयेति-कं. 1, कं. 2 / 8 समानेति-कं. 1, .क 2 / ९विनाशो-कं. 1, कं. 2 / 10 उत्तरकर्मणामपि-जे. 1 / 11 महाप्रलया...म. जे. 1, 2, 3 /