________________ 640 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् अथ कर्मपदार्थनिरूपणम् प्रशस्तपादभाष्यम् [242] उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः / एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वमगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगवत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं स्वपराश्रयसमवेतकार्यारम्भकत्वं समान-. . ____ न्यायकन्दली जगदङकुरबीजाय संसारार्णवसेतवे / नमो ज्ञानामत'स्यन्दिचन्द्रायार्धेन्दुमौलये // [242] उत्क्षेपणा'दीनां परस्परं साधर्म्यमितरपदार्थवैधयं च प्रतिपादयन्नाहउत्क्षेपणादीनामिति / कर्मत्वं नाम सामान्यम्, तेन सह सम्बन्ध उत्क्षेपणादीनामेव. एकद्रव्यवत्त्वम् एकदा एकस्मिन् द्रव्ये एकमेव कर्म वर्तते, एकं कर्म 'एकत्रैव द्रव्ये वर्तत इत्येकद्रव्यवत्त्वम् / यद्येकस्मिन् द्रव्ये युगपद्विरुद्धोभयकर्मसमवायः स्यात्, तदा // अथ 'कर्म // टि०] [242 to 254] संयोगविभागानपेक्षकारणत्वम् इति :- ननु पूर्व प्रदेशासंयोगविशिष्टं काल मपेक्ष्य [कर्मणोत्तरप्रदेशे संयोगो जन्यते न तु पूर्वसंयोगे सत्येव यथा कार्यविनाशविशिष्टं कालमपेक्ष्य] विभागेनोत्तरविभागो जन्यते,तस्माद् विभागवदुत्तरसंयोगं प्रति कर्मणोऽपि सापेक्षकारणत्वमेवेति कथमनपेक्षकारणत्वम्? कि०] [242] *नन्वेकद्रव्यत्वं रूपादिष्वप्यस्ति तत्कथमिदमुत्क्षेपणादीनां ततो वैधय॑मित्यत आह एकदेति (कं.२९०) यथा रूपादयः स्वसमानजातीयेन रसादिना सहैकस्मिन्द्रव्ये वर्तन्ते, नैवमुत्क्षेपणादयः स्वसमानजातीयैः सहैकस्मिन्द्रव्ये वर्तन्त इत्यर्थम् द्वितीयं तु व्याख्यानं संयोगादिवदनेकद्रव्यवृत्तित्वव्युदासाय स्वरूपादिसाम्यं प्रथमव्याख्यातेऽर्थे प्रमाणं सूचयितुं तर्कमाह यदीति (क. 290) तत्र तावद्विरुद्धकर्मद्वयसमावेशाभावे प्रत्यक्षमेव प्रमाणम् / प्रतीयते युत्क्षेपणवदपक्षेपणाभावः। अविरुद्धकर्मद्वयसमावेशाभावे प्रमाणं विमतं (?) कर्मान्तराश्रिते न वर्तते / कर्मत्वात्संप्रतिपन्नवदिति द्वितीयव्याख्यातेऽर्थे प्रत्यक्षमेव प्रमाणमाह [एकस्येति (कं. 290)] एकस्येव सहगच्छतोः संयोगिनो: गमनभेद: प्रत्यक्षसिद्ध इति भावः / क्षणिकत्वादिकं परस्परसाधर्म्यमात्रं रूपादिष्वपि संभवात् / गुरुत्वेति (कं. 290) गुरुत्वादिष्वन्यतमेन समुदितैर्वा जायमानत्वमित्यर्थः / संयोगग्रहणस्य प्रयोजनमाह नत्विति (कं.. 290) / ननु गणानामपि केषांचिदसमवायिकारणत्वं विद्यते, कथमिदं वैधय॑मित्यत आह यथेति (कं. 290) सत्ताव्यतिरिक्तनिमित्तकारणजातिहितत्वे सत्यसमवायिकारणत्वमुत्क्षेपणादीनामित्यर्थः / स्वपराधति (क. 290) इदं' साधर्म्यमात्र संयोगविभागयोरपि समानत्वात्पराश्रय एवेति स्वा।(थ) याद नास्मिश्चेत्यर्थः / After Buddhi, he directely comes * S'V. has not discussed the remaining Gunas. to the discussion of Karma. 5 मपेक्ष्योत्तर 1 स्यन्द-जे. 1 / 2 दीनां च-कं. 1, कं. 2 / 3 अथ कर्म:- अ, ब / 4 प्रदेशा-क। प्रदेशे-ब, क। 6 [ ] एतच्चिह्नान्तर्गतः पाठः अ पुस्तके नास्ति /