________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 639 प्रशस्तपादभाष्यम् शब्दाच्च संयोगविभागनिष्पन्नाद्वीचीसन्तानवच्छब्दसन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य ग्रहणम् / श्रोत्रशब्दयोर्गमनागमनाभावादप्राप्तस्य 'चानुपलब्धेः परिशेषात् सन्तानसिद्धिरिति / इति प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः / . न्यायकन्दली स्वोत्पत्तिदेशे विनश्यतामपि स्वप्रत्यासत्तिमपेक्ष्य तदव्यवहिते देशे सदशकार्यारम्भपरम्परया देशान्तरप्राप्तिः, तेन शब्दसन्तानः 'कल्प्यते। न चानवस्था, यावदूरं निमित्तकारणभूतः कौष्ठ्यवायुरनुवर्तते, तावदूरं शब्दसन्ताना'नुवृत्तेः / अत एव प्रतिवातं शब्दानुपलम्भः, कौष्ठयवायुप्रतीघातात् / अतीवायं मार्गस्तार्किकैः क्षुण्णस्तेनास्माभिरिह भाष्यतात्पर्यमानं व्याख्यातम् नापरा युक्तिरुक्ता। गुणोपबद्धसिद्धान्तो युक्तिशुक्तिप्रभावितः / मुक्ताहार इव स्वच्छो हृदि विन्यस्यतामयम् // ..इति 'भट्टश्रीश्रीधरकृतायां पदार्थप्रवेशन्यायकन्दलीटीकायां गुणपदार्थः समाप्तः / 1 सन्तानन्यायेन - व्यो. 650 पा-६, 7 पु.। 2 गमनासम्भवाद-व्यो (650) / 3 ग्रहणं नास्ति-कं. 1, कं. 2 / 4 कल्पते-जे. 1, जे. 2, जे. 3 / 5 नवत्तिः कं. 1, कं. 2 / 6 इति श्री श्रीधर-जे. 1, अत्र जे. 1 पुस्तके गुणप्रकरणे सुवर्णमयसंस्थान इत्येक: श्लोकः पुष्पिकाया लेखनदोषादत्र प्रविष्ट:-अन्यस्मिन् कस्मिंश्चिदपि पुस्तकेऽयं श्लोक: अत्र गुणप्रकरणान्ते नास्ति सं.।