________________ 638 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् तत्र वर्णलक्षणस्योत्पत्तिरात्ममनसोः संयोगात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा, तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते / स चोध्वं गच्छन् 'कण्ठादीनभिहन्ति, ततः स्थानवायु संयोगापेक्षात् स्थानाकाशसंयोगात् वर्णोत्पत्तिः / अवर्णलक्षणोऽपि भेरीदण्ड'संयोगाद्यपेक्षाढ़ेर्याकाशसंयोगादुत्पद्यते / वेणुपर्व- . विभागापेक्षाद् वेण्वाकाशविभागाच्च / .. न्यायकन्दली निमित्तकारणमपेक्षमाणादात्मवायुसंयोगादसमवायिकारणात् कोष्ठयवायो कर्म जायते / 'स च वायुरूवं गच्छन् कण्ठादीनभिहन्ति हृत्कण्ठताल्वादीन् प्रदेशानभिहन्ति / ततोऽभिघातादनन्तरं स्थानस्य कण्ठादेः कौष्ठयवायुना सह यः संयोगस्त निमित्तकारणभूतमपेक्षमाणात् स्थानाकाशसंयोगात् समवायिकारणाद्वर्णोत्पत्तिः। अवर्णलक्षणोऽपि भेरीदण्डसंयोगाद्दण्डगतं वेगमपेक्षमाणा र्याकाशसंयोगादुपजायते / भेर्याकाशसंयोगोऽसमवायिकारणम, भेरीदण्डसंयोगो दण्डगतश्च वेगो निमित्तकारणम् / वेणुपर्वविभागाद्वेण्वाकाशविभागाच्च शब्दो जायते / शब्दाच्च शब्दनिष्पत्ति कथयति-शब्दात् संयोगविभागनिष्पन्नाद्वीचीसन्तानवच्छब्दसन्तानः यथा जलवी च्याः तदव्यवहिते देशे वीच्यन्तरमुपजायते, ततोऽप्यन्यत् ततोऽप्यन्यदित्यनेन क्रमेण वीचीसन्तानो भवति, तथा शब्दादुत्पन्नात् तदव्यवहिते देशे शम्दान्तरं ततोऽप्यनयोर्गमनागमनाभावात् प्राप्तस्यैवोपलब्धिरिति ततोऽप्यन्यत् ततोऽप्यन्यदित्यनेन क्रमेण शब्दसन्तानो भवति / एवं सन्तानेन श्रोत्रदेशे समागतस्यान्त्यशब्दस्य ग्रहणम् / नन्वेषा कल्पना कुतः सिद्धयतीत्यत आह-श्रोत्रशब्दयोरिति / न श्रोत्रं शम्ददेशमुपगच्छति, नापि शब्दः श्रोत्रदेशम्, तयोनिष्क्रियत्वात् / अप्राप्तस्य ग्रहणं नास्ति, इन्द्रियाणां प्राप्यकारित्वात् / प्रकारान्तरेण चोपलब्धिर्न घटते / दृष्टा च वीचीसन्ताने 1 उरःकण्ठादीन-दे। 2 संगोगापेक्षमाणांत-कं. 1, कं.२। 3 संयोगापेक्षाद्-कं. 1, कं. 2 / 4 विभागाद्कं. 1, कं.२। 5 स वायु-जे. 1 / 6 घातानन्तरं-कं. 1, कं. 2 / 7 निमितं-जे. 1 / 8 विभागापेक्षाद्-जे. 1 / 9 वीच्या-कं. 1, कं.२। 10 जायते-जे. 2 /