________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 637 प्रशस्तपादभाष्यम् [241] शब्दोऽम्बरगुणः श्रोत्रग्राह्यः, क्षणिकः, कार्यकारणोभयविरोधी, संयोगविभागशब्दजः, प्रदेशवत्तिः, समानासमानजातीयकारणः / स द्विविधो वर्णलक्षणो 'ध्वनिलक्षणश्च / तत्र अकारादिवर्णलक्षणः, शङ्खादिनिमित्तो 'ध्वनिलक्षणश्च / न्यायकन्दली नित्यं सुखं तदभावान्न 'तदनुभवमयो मोक्षावस्था, किन्तु समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव / यथा चायं पुरुषार्थस्तथोपपादितम् / [241] शब्दोऽम्बरगुणः आकाशगुणः / ननु संख्यादयोऽप्याकाशगुणः सम्भवन्ति / कथमिदं शब्दस्य लक्षणं स्यादत आह-श्रोत्रग्राह्य इति / श्रोत्रग्राह्यत्वे सत्यम्बरगुणो यः स शब्द इत्यर्थः / परस्य विप्रतिपत्तिनिराकरणार्थमाह-क्षणिक इति / आशुतरविनाशी शब्दो न तु नित्यः, उच्चारणादूर्ध्वमनुपलम्भात् / सद्भावे प्रमाणाभावेन 'व्यञ्जकक्षणिकत्वकल्पनानवकाशात् / प्रत्यभिज्ञानस्य ज्वालादिवत्सामान्यविषयत्वेनोपपत्तेस्तीवमन्दतादिभेदस्य च व्यक्तिभेदप्रसाधकत्वात् / कार्यकारणोभयविरोधी आद्यः शब्दः स्वकार्येण विरुध्यते / 'अन्त्यः स्वकारणेनोपान्त्यशब्देन विरुध्यते, अन्यस्य विनाशकारणस्याभावात् / मध्यवर्तिनस्तूभयथा विरुध्यन्ते / संयोगविभागशब्दजः / आद्यः शब्दः संयोगाद्विभागाच्च जायते, तत्पूर्वकस्तु शब्दादिति विवेकः / प्रदेशवृत्तिः अव्याप्यवृत्तिरित्यर्थः / एतच्चोपपादितम् / समानासमान'जातीयकारणः / शब्दजः शब्दः समानजातीयकारणः / संयोगजविभागजश्च असमानजातीयकारणः / स द्विविधो वर्णलक्षणः ध्वनिलक्षणश्च / अकारादिवर्णलक्षणः, शङ्खादिनिमित्तो ध्वनिलक्षणः। - तत्र तयोर्मध्ये, वर्णलक्षणस्योत्पत्ति रुच्यते / आत्ममनमोः संयोगात् पूर्वानुभूतवर्णस्मृत्यपेक्षात् तत्सदशवर्णोच्चारणे कर्तव्ये इच्छा भवति / ततः प्रयत्नस्तं प्रयत्नं 1, 2 अवर्णलक्षणश्च-व्यो (650) दे. 5 / 3 पो. 2 / 3 तदनुभवो-कं. 1, कं. 2 / 4 सन्ति-कं. 1, कं. 2; भवन्ति-जे. 2 / 5 व्यञ्जकत्वकल्पना-कं. 1, कं. 2 / 6 अन्त्यशब्द:-जे. 5 / 7 जातीयेति-कं. 1, क. 2 / '8 रभिधीयत-जे. 2 /